पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
आयुर्वेदप्रकाश ।

अन्यत्रापेि
गुरुशाखे परित्यज्य विना जातिगन्धकात्।
रसं निर्माति दुर्मेधाः शपेत्तं परमेश्वरः ।। १६७ ।।
तत्र गन्धकजारेणा बहिधूमान्तर्धुमभेदेन द्विविधा । आाद्या यथा-‘तत्र षड्गुणगन्धकजारणक्रिया साधीयसी निगद्यते' इत्युक्त प्रागेव ॥
रसगुणबलिजारणं विनाऽय
न खळ सुज्ञां ह्ररणक्षमो रसेन्द्रः ।
न जलदकलर्धीतपाकहीन:
स्पृशति रसायनतामिति प्रतिज्ञा ।। १६८ ।।

तन्निमित्तकं सिकतायन्त्रद्वय कथ्यते । यथा--निरवधिनिष्पीडितमृदम्बरादिपरिलिप्तामतिकठिणकाचघटीमग्रे वक्ष्यमाणप्रकारा रसगर्भिणीमधस्तर्जन्यडुलिप्रमाणितछिद्रायामनुरूप स्थालिकायामारोप्य छिद्रस्य परितो द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसर सिकताभिरापूर्य वर्धमानकमारोपणीर्यः क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पचनीयमित्येक यर्च; हस्तैकमात्रप्रमाणभूगर्भान्तर्निखाता प्रागुक्तकाचघटी नातिचिपिटमुखी नात्युच्चमुखी मषीभाजनप्राया खपैरचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरा मृण्मयी वा घटी विधाय करीषैरुपरि पुष्टो देय इल्यन्यद्यत्रम् । ‘यत्रमध्ये तु भूधरः' इति त्रिविक्रमः ।। ‘कूर्मयत्रे रसे गन्ध षड्गुणं जारयेद्बुध:' इत्यन्ये । अत्र पक्षे रागस्तथा न खात्, तेनादौ त्रिगुर्ण जारयित्वा शेषः कच्छपिकोदरे देयः, तदा रागः साधुः खान् । अत्र कञ्जलिमन्तरेण केवलगन्धकमपि साम्येन जारयन्ति ।


१ प्राग्वकाचघटी’ ख़ ।