पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

लित्वा च मेखलामध्य चूर्णेनात्र रस क्षिपेत् ।
रसस्योपरि गन्धस्य चूर्णं दद्यात्समाशकम् ।। १८३ ।।
दत्त्वोपरि शराव च भस्ममुद्रा प्रदापयेत्।
तस्योपरि पुटं दद्याचतुर्भिर्गोमयोपलैः ।। १८४ ।।
एवं पुनः पुनर्गन्धं षङ्गुण जारयेद्बुधः ।
गन्धे जीर्णे भवेत्स्रुतस्तीक्ष्णाग्नेिः सर्वकार्यकृत्।।१८५।।इति।।
रसरत्नाकरे-
सस्थाप्य गोमय भूमौ पकमूषा तथोपरि ।
तन्मध्ये कटुतुम्ब्युत्थ तैलं दत्त्वा रसं क्षिपेत् ॥ १८६ ।।
काकमाचीद्रवो देयतैलतुल्यः पुनःपुनः।
गन्धक व्रीहिमात्रं च क्षिप्त्वा तां च निरोधयेत् ॥१८७॥
(तर्रपृष्ठ श्रावक देय पूर्ण वा वष्ट्रिखर्परम् ।
खाङ्गशीतलतां ज्ञात्वा जीर्णेतैलं च गन्धकम् ।
काकमाचीद्रवं चार्मि दत्त्वा दत्त्वा तु जारयेत् ॥ १८८ ।)
श्रूषानो गोम्यं सान्द्र दृष्ट्वा चोर्ध्न चु पावकृम्।
षङ्गुणं गन्धके जार्य स्रुतखैव मुखं भवेत् ॥ १८९ ।।
इत्याद्यजारणम् ।
अथान्लय यथासूतप्रम्णु सिकताख्बयचे दत्त्वा बलिं मृद्धटितेऽल्पभाण्डे ।
तेलावशेषं च रसं निदध्यान्मझार्धेकार्यं प्रविलोक्य भ्रूयः १९०
आषङ्गुणं गन्धकमल्पमल्पं क्षिपेद्रसो जीर्णबलिर्बलीयान् ।
रसेषु सर्वेषु नियोजितोऽयमसंशय ह्रन्ति गदं जवेन । १९१ ।।
इति गन्धकजारणम् ॥


१ अय पाठ ख पुस्तके नोपलभ्यते