पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

निस्तुष जयपाल च मूलकाना द्रवैर्दिनम् ।
सैन्धवं टङ्कण गुञ्जा दिनं शिशुजटाम्भसा । २०० ।।
एतत्सर्व समाश तु मद्यं जम्बीरजद्रवैः ।
तद्भोल रक्षयेद्यत्नाद्विडोऽयं वडवानलः । २०१ ।।
अनेन मर्दितः सूतः सैस्थितस्तत्खट्वके ।
खणोदिसर्वलोह्वानि सत्त्वानि ग्रसते क्षणात् ।। २०२ ।।
इति वडवानलो बिडः ॥
मूलकार्द्रकवहीना क्षार गोमूत्रगालितय् ।
वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् ।
शतवारं खरे घर्मे बिडोऽय हेमजारणे ॥ २०३ ॥
इति सिद्धलक्ष्मीश्वरतत्रोक्तो बिडः ॥
एवं बिडान्तराण्यपि तत्रान्तरादनुसर्तव्यानि इति बिडकथनम्॥
ब्रूतूषष्ट्यंशक हेम्पत्रं मायूरमायूना ।
विलितं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् ।
दुिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ।। २०४ ।।
शनैः संखेदयेद्भूर्जे बद्धा सपटुकाञ्जिके ।
भाण्डके त्रिदिनं सूतं जीणखर्ण समुद्धरेत् ॥ २०५ ॥
अधिकस्तोलितश्चेत्स्यात्पुनः खेद्यः समावधि ।
द्वात्रिंशत्षोडशाष्टाशक्रमेण वसु जारयेत् ॥ २०६ ॥
रूप्यादेिषु च सत्वेषु विधिरेवंविधः स्मृतः ।
चूल्लिकालवण गन्धमभावे शिखिपित्ततः ॥ २०७ ॥
इति खणैरूप्यादिसर्वेसस्वजारणविधिः ।
अथ तप्तखल्चलक्षणम् -
अजाशकृतुषार्ध्नि च खातयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितो लोह्खल्वः स तत्खल्वकः । २०८ ।।
इति तप्तखल्वलक्षणम् ॥