पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

अथ सिद्धमते दोलायत्रेण हेमजारणं यथा-
सग्रासं पञ्चषड्भागैर्ध्रवक्ष्रैर्विमर्दयेत् ।
मूतं तत्षोडशांशेन गन्धेनाष्टाशकेन वा ।। २०९ ॥
ततो विमद्य जम्बीररसे वा काञ्जिकेऽथवा ।
दोलापाको विधातव्यो दोलायन्त्रमिद् स्मृतम् ।। २१० ।।
दिनत्रयं वा जीर्णोवधि दोलापाको विधातव्य इति भावः ।
इति दोलाजारणम् ।
अथान्यत्सिद्धमते कच्छपयत्रेण काञ्चनग्रर्सनं, यथा
शश्वद्धृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता ।
पकमूषा जले तखा रसोऽष्टाशबिडावृतः ॥ २११ ॥
संरुद्धो लोहपात्र्याऽथ मुद्रितो दृढमुद्रया ।
वालुका तदुपयेष्टाङ्गुलमाना विनिक्षिपेत् ॥ २१२ ॥
इठात्तदुपरि ध्मातो रसस्तद्भर्भसंस्थितः ।
मायूरमायुना लिप्तं काश्चन ग्रसति ध्रुवम् ।। २१३ ।।
इति कच्छपयन्त्रम् ॥
उक्तं च-
सच्छिद्रं सलिलापूर्णभाण्डवक्रे शरावकम् ।
दत्त्वा छिद्रे पकमूषा देया नीरावियोगिनि ।
तस्या बिडावृतः सूतो देयो लोहावृते मुखे ॥ २१४ ॥
दत्त्वा वालुकामुपरि मुद्रा दत्त्वा शनैःशनैः ।
ध्मातो ध्मातो ग्रसलेव काश्वने सूक्ष्मता गतम् ।। २१५ ।।
खल्पं सपित्तताप्यातं शनैर्दर्य समावधि ।
देह्रार्थ, धातुवादार्थ मयञ्छन्त्यल्पबुद्धयः ।। २१६ ।।
इत्यपि कच्छपयच्त्रम् ॥


१ “काञ्चनकरण' ख !