पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

अथ मतान्तर यथा-
कुण्डाम्भसि लोहमये सबिड सग्रासमीशर्ज पात्रे ।
अतिचिपिटलोहपात्र्या पिधाय सलिप्य वद्विना योज्य* ॥२१७
इयतैव रसायनतात्पर्यं पर्येवसति, केितु वादस्य न प्राधान्यम् ।
इति हेमजारणा ॥
अथ सप्रत्युभयप्राधान्येन जारणा यथा, तत्र घनसत्त्वजारणम् । यत उक्त--
घनरहितबीजजारणसप्रासदलादिसिद्धिकृतकृल्याः ।
कृपणाः प्राप्य समुद्र वराटिकालाभसंतुष्टाः । २१८ ।।
मुक्त्वैकमभ्रसत्त्व नान्यो रसपक्षकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ।। २१९ ।।
रक्तै पूीतू च हेमार्थे कृष्णे हेमशरीरयोः ।
तारकर्मेणि तच्छुक्ल काचकिट्ट सदा त्यजेत् ॥ २२० ॥
त्रुटिशो दत्त्वा मृदित सोष्णे खल्वेऽभ्रसत्त्वहेमादि ।
चरति रसेन्द्रः क्षितिरपमवेतसजम्बीरबीजपूराम्लै. ।। २२१
क्षितिखगः कासीसम् । अम्लाभावे पूर्वसाधितकाञ्जिकमपि ज्ञेयम् । अन्यश्च-
अभ्रकजारणमादौ गभेद्रुतिजारण च हेम्नोऽन्ते ।
यो जानाति न वादी दृथैव सोऽथेक्ष्य कुरुते ॥ २२२ ।।
इत्यभ्रकसत्त्वजारणा ॥
अथ गभेद्रुति: ।
व्योमसत्त्वसमशेन ताप्यसत्त्वेन सैयुतम्।
साकल्येन चरेद्देवी गभेद्रावी भवेद्रसः ॥ २२३ ॥

एवं हेमताराभ्रादयः खूखरिपुणा निव्यूँढाः प्रयोजनमवलोक्य प्रयोज्याः । गर्भदुतिमन्तरेण जॉरणैव न खात् ।