पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

तन्मते चतुःषष्टिचत्वारिंशत्रिंशद्विंझतिषोडझाशाः पंच ग्रासाः ।
अथ रञ्जनंम् ।
तारकर्मण्यख न तथा प्रयोगो दृश्यते ॥
केवल निर्मलं ताम्र वापित दरदेन तु ।
कुरुते त्रिगुणं जीर्णे लाक्षारसनिभ रसम् ।। २३२ ।।
गन्धकेन हत नागं जारयेत्कमलोदरे ।
एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ।। २३३ ।।
कमलोदरे ताग्रे । एततु नागसंबधान्न रसायनकर्मणि । केिवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रोत्तारणदनु तद्वीजं समजीर्ण सन् तॆत्रेणैव रञ्जयति ।
कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन ।
दरदनिहतासिना वा निव्यूढं हेम तद्धीजम् ॥ २३४ ॥
बलिना व्यूढं केवलार्कमपि ॥
कुनटी मनःशिला, करिनागः, रविस्ताम्रं, असिलेॉह्वम् ।
अथ तारबीजम्--
कुटिलं विमला तीक्ष्णं समं चूर्ण प्रकल्पयेत् ।
पुटितं पञ्चवारं तु तारे वाह्यं शनैधेमेत् ।
यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम् ।। २३५ ॥
कुटिलं वङ्गः, विमला काखमाक्षिकं, तीक्ष्णं लोह्वम् ।
सत्त्वं तालोद्भर्वे वङ्गं समं कृत्वा तु धामयेत् ।
 तचूर्ण वाहयेत्तारे गुणान् यावतु षोडश ॥ २३६ ॥
श्रतिबीजमिदं श्रेष्ठं स्रुतकस्य तु बन्धनम् ।
जारणात्सारणाचैव सह्स्रांशेन विध्यति ।। २३७ ।।


१ ‘रञ्जनवेधने' क ॥ २ ‘त्रिगुणताम्रजारणादनु तद्भय' ख' ॥ ३ ‘खतत्रेणैव’ ख ।