पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& J आयुर्वेदप्रकाश । ३३ वङ्गाभ्रं वाह्येत्तारे गुणानि द्वादशैव तु । एतद्भीजे समे जीर्णे शतवेधी भवेद्रसः ॥ २३८ ।। अथ हेमबीजम् नागाभ्र वाहयेद्वैम्नि द्वादशैव गुणानि च । प्रतिबीजमिद् श्रेष्ठं पारदस्य तु बन्धनम् ।। २३९ ।। माक्षिकेण हत ताम्र तार वा रञ्जयेन्मुहुः । तं नागं वाह्येद्भीजे द्विषोडशगुणानि च ।। २४० ।। बीजमेतद्वर श्रेष्ठं नागबीज प्रकीर्तितम् । समचारितमात्रेण सहस्रांशेन विध्यति ।। २४१ ।। अथ रञ्जनार्थं सारणार्थं च तैलम् - मञ्जिष्ठा किंशुक चैव खदिर रक्तचन्दनम् । करवीरं देवदारु सरलो रजनीद्वयम् ।। २४२ ।। अन्यानि रक्तपुष्पाणि पिष्ट्रा लाक्षारसेन तु । तैलं विपाचयेत्तेन कुर्याद्भीजादेिरञ्जनम् ।। २४३ ।। द्विगुणं रक्तपुष्पाणा रक्तपीतगणस्य च । कार्थ, चतुर्गुणं क्षीरं, तैलमेकं सुरेश्वरि ।। २४४ ।। ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् । पाटलाकाकतुण्ड्यम्बुमहृाराष्ट्रीरसैः पृथक् ।। २४५ ।। भेकशूकरमेषाहिमत्खकूर्मजलौकसाम्। वसया चैक्या युक्तं षोडशाशैः सुपेषितैः ॥ २४६ ।। भूलतामलमाक्षीकद्वन्द्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ।। २४७ ।। अत्र गन्धर्वतैलमपि रसहृदयखरसात् । अथ द्वन्द्वमेलापकोषधानि–'ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलशक्रगोपकर्के

' इति द्वन्द्वमेलापकौषधानि ।