पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& ) आयुर्वेदप्रकाश । ३७ प्रदा भवन्ति । उच्यते च-समजीर्णश्वाय शतवेधी, द्विगुणजीणैः सहृस्रवेधी, एवं लक्षायुतकोटिवेधी समनुकर्तव्यः, चतुःषष्टिगुणजीर्णेस्तु धूमस्पर्शीवलोकशब्दतोऽपि वेि यति । अथ सारणोच्यते । अन्धमूषा तु कर्तव्या गोस्तनाकारसब्रिभा । सैव छिद्रान्विता मन्दगम्भीरा सारणोचिता ॥ २६७ ॥ अस्यामेव मूषाया ततैलमपगतकल्कविमलमापूर्य तस्मिन्नेधिकमूष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव सुमॆौवर्तनीयः स्रुतवरः, तदनु सद्यो मूषाननमाच्छादनीयमेततैलाक्तपटखण्डग्रन्थिबन्धेन, अरुणसितबीजाभ्याममुना सारणकर्मणा मिलितश्रेत्सारितः सम्यक् संयमितश्च विज्ञेयः, प्रतिसारितस्तु द्विगुणबीजेन, तद्वदनुसारितस्तु त्रिगुणबीजेन, अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थमीषत्पन्नगबङ्गौ विश्राणनीयाविति । सारितो जारितश्चैव पुनः सारितजारितः । सम्सङ्क(शृङ्ख)लिकायोगात्कोटिवेधी भवेद्रसः ।। २६८ ।। इत्यादीनि कमणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपश्चितानि । (द्रुतयोऽपि न दृष्टास्ते शास्त्रे दृष्टा अपि ध्रुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदांचन ।। १ ।) अथ क्रामणम् । शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन । ऋमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ।। २६९ ।। १ तत्तैलं सारणतैलम् ।। २ तस्मिन् सारणतैले, अधिकमूष्मात्मनि सम्यक् प्रतझे । ३ ‘समावर्जनीय ? ग । ४ अय छोक ख पुस्तके नोपलभ्यते । Y;