पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ] आयुर्वेदप्रकाश । ४१ पारदो दरदो हेममाक्षिको गन्धक: शिला । एतूनि समभागानि काकमाचीरसेन च ॥ ३०० ॥ मदंनीयानि गाढानि कारितव्यानि खल्वके । पीतपित्तलपत्राणि कृतसूक्ष्माणि तान्यर्थ ॥ ३०१ ॥ लेपितव्यानि चैतेन चूर्णेनाथ प्रयत्नतः । मध्यमस्तु पुटो देयः क्रियते चूर्णमुत्तमम् ।। ३०२ ।। पुनस्तारस्व भागैक चूर्ण भाग्ढ्रं भवेत् । अध ऊध्वेमिदं दत्त्वा ॰माप्यते चैकतः कृतम् ।। ३०३ ।। भट्टाततैलमये हि क्षिप्यते गलितं च तत् । एवं वारद्वय तार ततैले विनिवेशयेत् ।। ३०४ ।। पिञ्जराभं भवेत्तार समुं हेमापि मेलयेत् । जायते कनकं रम्यं वर्णयुग्म विह्ाय तत् ।। ३०५ ।। इति हेमवती ॥ अथ रसबन्धनविद्या । भूलताशिखरीमूल वारिणा मर्दयेदृढम् । तछिम्पेन्मूपिकामध्ये तन्मये निक्षिपेद्रसम् ॥ ३०६ ।। पञ्चटङ्कप्रमाण, ता मूषामङ्गारक क्षपंत् । एवं बद्धो भवेत्सूतो मूषान्तःस्थो दृढो भवेत् ॥ ३०७ ॥ अख फलम् मूषामध्यगतस्तिष्ठेन्मुखरोगविनाशनः । शरीरे ऋामिते सूते जरापलितजिन्नरः ।। ३०८ ।। स्तम्भयेच्छस्रसंघात कामोत्पादनकारकः । पुननेव वपुः कुर्यात्सावकस्य न संशयः । अतिक्रामो भवेन्मल्यों वलीपलितनाशनः ॥ ३०९ ।। इति रसबन्धनम् । १ *नान्यथा’ गा ॥