पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ आयुर्वेदीयग्रन्थमाला । [अध्याय अथान्ध: प्रकार: पुष्पितमनोजमन्दिरम ये मृतो नियन्त्रितो युक्ल्या । बद्धो भवति कियद्भिर्दिवसैः पुष्पप्रभावेण ।। ३१० ।। इति रसबन्धनम् । अथान्येऽपि बन्धभेदास्ते यथा— पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे । येन येन हि चाञ्चल् दुर्ग्रह्त्वं विनश्यति ।। ३११ ॥ रसराजस्य सश्रोक्तो बन्धनार्थो हेि वार्तिकैः । हृठारोटौ तथाऽऽभासः क्रियार्हीनश्च पिष्टिका ।। ३१२ ।। क्षार: खोटश्व पाटश्व कल्कबन्धश्च कञ्जली । सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ।। ३१३ ।। शृङ्खलादुतिबन्धौं च बालधैव कुमारक: । तरुणश्च तथा वृद्धो मूर्तिबन्धस्तथाऽपरः ।। ३१४ ।। जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः । मह्ाबन्धाभिधश्चेति पञ्चविँशतिरीरिताः ।। ३१५ ।। केचिद्वदन्ति षडूिंशो जलौकाबन्धसंज्ञकः । स तावन्नेष्यते देहे स्रीणा द्रावे प्रशस्यते ॥ ३१६ ॥ अन्यमते चत्वार एव बन्धाः, ते यथा पाटः खोटो जलैौका च भस्त्र चाँपि चतुर्थकम् । बन्धश्चतुर्विधो ज्ञेयः सूतस्य भिषगुत्तमैः ।। ३१७ ।। अस्य लक्षूणानि पादुः पपेटिकाबन्धः पिष्टीबन्धस्तु खोटकः । जलेौका पक्बन्धः स्याद्भस्म भस्मनिभ भवेत् ।। ३१८ ।। स्रुतभस्म द्विधा ज्ञेयमूर्ध्वग तलभस्म च । ऊध्र्व सिन्दूरकर्पूररसावन्यदधो भवेत् ॥ ३१९ ॥ १ *चात्र’ सा ।