पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ] आयुर्वेदप्रकाश' । ४३ अथ हठादीना लक्षणानि हृठो रसः स विज्ञेयः सम्यक्शुद्धिविवर्जितः । स सेवितो नृणा कुर्यान्मृत्यु व्याधिसमुद्भवम् ॥ ३२० ॥ सुशोधितो रसः सम्यगारोट इति कथ्यते । स क्षेत्रीकरणे श्रेष्ठः श्नैव्योधिविनाशनः ।। ३२१ ।। पुटितो यो रसो याति योर्ग' त्यक्त्वा खभावताम् । भावितो मैंायुमूलाद्यैराभासो गुणवैकृती ॥ ३२२ ॥ असंशोधितलीह्राद्यैः साधितो यो रसोत्तमः । क्रियाहीनः स विज्ञेयो वेिक्रिया यात्यपथ्यतः ।। ३२३ ।। तीव्रातपे गाद्वैतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा । ख्यातः स म्रुत: किल पिष्टिबद्धः सेंदीपनः पाचनकृद्विशेषात् । शङ्खशुक्तिवराटाद्यैर्योऽसौ ससाधितो रसः । क्षारबद्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ।। ३२५ ॥ बद्धो यः स्फो(खो)टता याति -मातो ध्मातः क्ष्य व्रजेत् । खीटबद्धः स विज्ञेयः शीघ्र सर्वेविषापहः ।। ३२६ ।। ढुतकञ्जलिका मोचापत्रके चिपिटीकृता । स पाटः पर्पटी सैव बद्धश्वाखिलरोगनुत् ॥ ३२७ ॥ मोचापत्र कदलीपत्रम् ॥ खेदाद्यैः साधितः स्रुतः कल्कत्व समुपागतः । कल्कबद्रः स विज्ञेयो योगोर्रतफलदायकः ॥ ३२८ ॥ कञ्जली रंसगन्धोत्था सुक्षुक्ष्णा कञ्जलोपमा । तत्तद्योगेन सयुक्ता कञ्जलीबन्ध उच्यते ॥ ३२९ ॥ भस्मीकृतो नश्यति वह्नियोगाद्रसः सजीवः खलु संप्रदिष्टः । संसेवितोऽसौ न करोति भखकार्य जराव्याधिविनाशन च३३० १‘योगयुक्त्या खवासनाम् ग । २ ‘धातुमूलाद्यै- ग । ३ ‘गाढतरे वेिमदत? ग । ४ ‘योगेन फलदायक ? क । ५ ‘रसगन्धाभ्याम्' गा ॥