पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

상 있 आयुर्वेदीयअन्थमाला । [अध्याय जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्वाखिललोहमौलिः । निर्जीवनामा हिसभस्मृती निःशेयरोगान् विनिहतिवेगान् रसस्तु पादृशसुवर्णजीर्ण पिष्टीकृतो गन्धकयोगतश्व । तुल्याशगन्धैः पुटित’ क्रमेण निबीजनामा सकलामयघ्न:३३२ बीजीकृतैरभ्रककसत्त्वहेमतारार्ककान्तैः परिजारितो यः । हृतस्ततः षङ्गुणगन्धकेन संवीजबद्धो विपुलप्रभावः ।। ३३३ ।। वज्रादिनिह्त. स्रुतो हृतस्तसमोऽपरः । शृङ्खलाबद्धसूतस्तु देहलोहविधायक: । चित्रश्रभावा वेगेन व्याप्तेि जानाति शङ्करः (?) ।। ३३४ ।। युक्तोऽपि बाह्यद्रुतिभिश्च सूतो बन्धं गतो वा भसितखरूपः । स राजिकापादमितो निहन्ति दु:साध्यरोगान् दुतिबद्धनामा। समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन । रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥ ३३६ ।। हरोद्भवो यो द्विगुणाभ्रजीर्णेः स स्यात्कुमारो मिततण्डुलोऽसौ। त्रिसप्तरात्रैः खलु पापरोगसंघातघाती च रसायन च ॥३३७॥ चतुर्गुणव्योमकृताशनो यो रसायनाय्यस्तरुणाभिधानः । स सप्तरात्रात्सकलामयन्नो रसायनो वीर्येबलप्रदाता ॥३३८॥ यश्चाभ्रकं षङ्गुणित हि जीणेः प्राप्ताग्निसख्यः स हि वृद्धनामा । देहे च लोहे च नियोजनीय: शिवादृते कोऽस्य गुणान् प्रवक्ति। यो दिव्यमूलिकाभिश्च कृतोऽल्यग्निसद्दो रसः । वेिनाऽभ्रजारुणान् स स्यान्मूर्तिबद्धो मह्वारसः ।। ३४० ।। अयं हि जायेमाणंस्तु नाग्निना क्षीयते रसः । योजितः सर्वेरोगेषु निरौपमफलप्रदः ।। ३४१ ।। र्शिलातोयमुखैस्तोयैः सिद्धोऽसौ जलबन्धनात् । स जरारोगमृत्युञ्जः कल्पोक्तफलदायकः ॥ ३४२ ।। १ शिलोदकवर्णन रसार्णवे १२ पटले द्रष्टव्यम् ।