पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ] आयुर्वेदप्रकाश ।’ ४९ सम्यग्विशोष्य मुद्रां तां स्थाली चूल्ह्यां निरोधयेत्॥३७४॥ अग्नेि निरन्तर दद्याद्यावद्दिनचतुष्टयम् । अङ्गारोपरि तद्यत्रं रक्षेद्यत्नादहर्निशम् ।। ३७५ ।। शनैरुद्धाटयेद्यत्रमूध्र्वस्थालीगतं रसम् । कर्पूरवत्सुविमलं गृह्णीयाद्गुणवत्तरम् ॥ ३७६ ॥ तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् । खादन् ह्रति फिरङ्ग व्याधिं सोपद्रवं सपदि ।। ३७७ ।। विन्दति वह्नेर्दीति पुष्टेि वीर्यं बलं विपुलम् । रमयति रमणीश्तकं रसकर्पूरस्य सेवकः सततम् ।३७८॥ इति रसकर्पूरः । अथ सिन्दूररसः । शुद्धसूर्त तदर्ध तु शुद्धगन्धकमेव हि । तयोः कञ्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ।। ३७९ ।। मृत्कर्पटैर्विलिप्तायां कूप्यां कञ्जलिकां क्षिपेत् । वालुकायचूगा यावत्पचेद्दिनचतुष्टयम् ॥ ३८० ॥ गृहीयाद्ध्र्वर्सलग्न सिन्दूरसद्दर्श रसम्। इति सिन्दूररसः । अथ रसचिन्तामणौ— नागार्जुनीति विख्याता दुग्धिका क्षितिमण्डले ।। ३८१ ।। तया विमर्देयेत्स्रुतं दिनमेकं निरन्तरम् । काकमाचीरसैः कार्यं मर्दनं दोषनाशनम् ।। ३८२ ।। पारदं दशटङ्गं स्याद्दशटङ्क च गन्धकम् । नौसादरं च पादं स्यात्रयमेकत्र मर्दयेत् ॥ ३८३ ।। काचस्य कूपके कृत्वा मुखं तस्य निरुध्य च । अष्टयामावधियोवत्तावत्स्रुतः प्रपच्यते ।। ३८४ ।। एवं नुिष्यते साक्षात्तरुणादित्यसंनिभः ।