पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्वेदीयग्रन्थमाला । معا अरुणो भस्मसूताख्यः सर्वकार्यार्थसाधकः ।। ३८५ ।। प्रवालकोमलच्छायो नृणामल्यन्तवल्लभः । भक्ष्येद्रक्तिकाः पञ्च मरिचेन समं रसम् ।। ३८६ ।। रिक: प्राय: सद्यः कामाग्निदीपनः । ज्वरादेिकानयं दोषान् संयोगान्नाशयत्यपि ।। ३८७ ।। येषु येषु प्रयोक्तव्यो रसो रोगेषु सत्वरम् । ताश्च तान्नाशयेच्छ्रेष्ठः समर्थो रसपार्थिवः ।। ३८८ ।। इति सिन्दूररसः । अथ रसस्य मारणविधिः । धूम्सार रसं तूरी गृन्धक नवसादरम् । योमैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ॥ ३८९ ।। काचकूप्यां विनिक्षिप्य तां च मृद्वस्रमुद्रया । विलिप्य परितो वक्रे मुद्रां दत्त्वा विशोषयेत् ॥ ३९० ॥ अधःसच्छिद्रपिट्रीमध्ये कूपी निवेशयेत् । पिठरीं वालुकापूरैर्भूत्वा चाकूपिकागलम् ॥ ३९१ ॥ निवेदय चुल्या तदधो वह्निं कुर्याच्छनैः शनैः । तसादप्यधिक केिचित्पावकं ज्वालयेत्क्रमात् ॥ ३९२ ॥ एवं द्वादशभियांमैम्रियते रस उत्तमः । स्फोटयेत्खाङ्गशीतं तदूर्ध्वगं गन्धकं यजेत् ।। ३९३ ।। अधःस्थं च मृतं स्रुत गृह्णीयात्तं तु मात्रया । यथोचितानुपानेन सर्वकर्मसु योजयेत् ॥ ३९४ ॥ अथान्यप्रकारा: काष्ठोदुम्बरिकादुग्धै रसं कििं | तदुग्धपिष्टहिङ्गोश्व मूषायुग्मं प्रकल्पयेत् ॥ ३९५ ॥ क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रां प्रकल्पयेत् । ध्रुत्वा तद्गोलकं प्राज्ञो मृन्मूषासंपुटेऽधिके ॥ ३९६ ॥