पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः आपूर्य यन्त्रमुदकेन दिनानि चाष्टौ वह्नि क्रमेण तदधो विदधीत विद्वान् ।। ४०४ ।। पश्वात्ततो जलमुदस्य रसं तलस्थ मादाय भाजनवरे सुभिषङ्घिदध्यात् । संपूज्य शम्भुगिरिजागिरिजातन्जान् दद्याच्छुभेऽहनेि रसं वरमेकगुञ्जम् ।। ४०५ ।। ताम्बूलेिकादलयुतं ससेित पयोऽनु पीत्वाऽम्लमाषलवणै रहित सदन्नम् । अद्यात्कियन्त्यपि देिनानि ततो यथेच्छं भक्ष्यं भजेदथ नरो वेिगतामयः ख्यात् ॥ ४०६ ।। अर्थ मृतसूतलक्षणम् अतेजा अगुरुः शुभ्रो लोह्ह्राऽचञ्चलो रसः । यदा नावर्तते वह्नौ नोध्र्व गच्छेत्तदा मृतः ॥ ४०७ ॥ अचञ्चल इति छेदः । तत्रान्तरेऽपि – अगुरुरतेजाः शुभ्रो वह्निस्थायी स्थिरोऽधूमः। हेमादिधातुभोक्ता तत्क्तो स्यान्मृतः स्रुतेः ।। ४०८ ।। अथ गुणाः रसायनं त्रिदोषघ्नो योगवाह्यतिशुक्रलः । भस्मस्रुतोऽखिलातङ्कनाशनस्त्वनुपानतः ।। ४०९ ।। इति भस्मसूतगुणाः । ●ም |— अड्रोलख शिफावारिपिष्ट कल्के विमर्दयेत्। स्रुतं गन्धकसंतुल्यं दिनान्ते तं निरोधयेत् ।। ४१० ।। पुटयेद्धधरे यचे दिनान्ते स मृतो भवेत् । अथान्यञ्च - भ्री वटक्षीरेण सूता मर्दयेत्प्रहरद्वयम् l पाचयेत्तस्य काष्ठेन भस्मीभवति तद्रसः ॥ ४११ ।। अ