पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ] आयुर्वेदप्रकाशः । ५३ अथान्यञ्च - कटुतुम्ब्युद्भवे कन्दे गर्भे नारीोपय:प्लुतः । सस्रधा म्रियते स्रुतः खेदेितो गोमयाग्निना ।। ४१२ ।। अथान्यञ्च | अपामार्गख बीजानि तथैरण्डं च चूर्णयेत् । तचूर्ण पारदे देय मूषायामधरोत्तरम् ॥ ४१३ ॥ रुद्ध पचेल्लघुपुटैश्चतुर्भिर्भस्त्रता व्रजेत्। अथान्यञ्च | खरमञ्जरिबीजान्वितपुष्पकबीजैः सुचूर्णेितं कल्कम् । कृत्वा सूतं पुटयेदृढमूषायां भवेद्भख ॥ ४१४ ॥ अन्यञ्च | काकोदुम्बरकाया दुग्धेन विभावितो हड्डा । मदंनपुटनविधानात्सूतं भस्मीकरोत्येव ।। ४१५ ॥ इतेि भस्मस्रुतः । अथ जलौकाबन्धः । बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् । नीरसानामपि नृणा योषा स्यात्संगमोत्सुका ॥ ४१६ ॥ बाल्ये चाष्टाडुला योनौ यौवने च दशाडुला । द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥ ४१७ ॥ सा यथा | ಶ್ಗ जातीमूलख तोयं च शिशपातीयसंयुतम् ॥ ४१८ ॥ श्लेष्मातकफलं चैव त्रिफलाचूर्णमेव च । कोकिलाक्षख चूर्ण च पारदं मर्दयेदुधः ॥ ४१९ ॥ जलौका जायते दिव्या रामाजनमनोहरा । सा योज्या कामना(का)ले तु कामयेत्कामिनी खयम् ४२०