पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

以别 आयुर्वेदीयग्रन्थमाला । [ अध्याय सद्यः स्खलनमाप्नोति दुःसाध्याऽपि रतेऽङ्गना । इतेि जलेौकाबन्धः । अथ खेचरीगुटी रसचिन्तामणौ । रसं टङ्कत्रयं शुद्धं कृष्णधत्तूरबीजजे ॥ ४२१ ।। तैले पलद्वये खल्वे मर्दितं दिनसप्तकम् । तावद्यावद्भवेत्तस्य जलौकारूपमुत्तमम् ॥ ४२२ ॥ माषान्नपिष्टकेनादौ दृढसूत्रेण वेष्टयेत् । वर्ति कृत्वा ततो गाढं शोषयेद्रविणा च ताम् ॥ ४२३ ॥ दुशप्रस्थमिते तैले सर्षपख विपाचयेत् । तैलक्ष्यो भवेद्यावत्तावत्साऽप्यवतार्यते ।। ४२४ ।। स्रिग्धच्छाये निवेश्याथ शनैः सिद्धा च ता नयेत् । दुग्धेनापूर्यते कुम्भः शुभस्तत्र निवेशयेत् ।। ४२५ ।। विशोष्य सकलं दुग्धं गुटिका यदि तिष्ठति । बर्करस्य मुखे पश्चाद्गुटिकां तां प्रयच्छति ।। ४२६ ।। प्रविष्टा तन्मुखस्यान्तज्र्वलमानेव तद्वृदि । व्याकुलं कुरुते कामं देहे स्वास्थ्यं न तस्य वै ।। ४२७ ।। उदरस्था यद्ा भूयात्तदाऽसौ म्रियते पशुः । खकीये वदने पश्चाद्भूत्वा शुभ्रा निरामयाम् ॥ ४२८ ॥ योजनानां श्रुतं गच्छेदनायासेन साधकः । स्त्रीणां शतं तथा गच्छेच्छुक्रस्तम्भकरी मता ।। ४२९ ।। मुखस्थायामहो तस्यां प्रहारो नैव जायते । अन्येऽपि बहवो रोगा मुखस्था दन्तघातिनः ।। ४३० ।। जिह्वातालुगता ये ते कण्ठशालूककादयः । उपजिह्वा द्विजिह्वा स्यादधिजिह्वा सुदारुणा ॥ ४३१ ॥ सप्तषष्टिषु ये मध्ये, हृद्रोगाः पीनसादखः । तास्तांश्व नाशयत्येषा गुटिका नाम खेचरी ॥ ४३२ ॥ इतेि खेचरीगुटीघन्चः ।