पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& J आयुर्वेदप्रकाश । પછ फलम् - तीक्ष्णजीर्णख लक्षायुः पलमात्रख भक्षणात् । एवं दशपलं भुक्त्वा तीक्ष्णजीर्णस्य मानवः ।। ४५१ ।। तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् । भस्मनः गुल्बजीर्णस्य लक्ष्ायुः पलभक्षणात् ।। ४५२ ।। कोट्यायुर्ब्रह्म-आायुष्यं वैष्णवं रुद्रजीवितम् । द्वित्रिचतुःपञ्चषष्ठे मह्यकल्पायुरीश्वरः ।। ४५३ ।। अथ हेमजीर्णख फलम्– भस्मनो हेमजीर्णस्य लक्ष्ायुः पलभक्षणात् । विष्णुरुद्रशिवत्वं च द्वित्रिचतुभेिराप्नुयात् ।। ४५४ ।। अस्वानुपानम् - गुञ्जामात्रै हेमजीर्ण ज्ञात्वा चाग्रेिबलाबलम् । घृतेन मधुना चाद्यात्ताम्बूलं कामिनी व्रजेत् ॥ ४५५ ॥ एको दोषो हेि सूक्ष्मोऽस्ति भक्षिते भस्मसूतके । त्रिसप्ताह्वाद्वरारोहे कामान्धो जायते नरः ।। ४५६ ।। नारीसंगाद्विना देवि अजीर्ण तस्य जायते । मैथुनाचलिते शुक्रे जायते प्राणसंशयः ।। ४५७ ।। तस्मादजीर्णशमनोपायमाह युवल्या जल्पर्न कार्य तावत्तन्मैथुर्न त्यजेन्। लघुतां शेफसो ज्ञात्वा पश्वाद्गच्छन् सुखी भवेत्॥ ४५८ ॥ ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् । समाधिकरणं तस्य क्रामणं परमं मतम् ।। ४५९ ।। अथ रससेवनकर्तुराहारादिनियममाह अतिपानं चाल्यश्नमतिनिद्राऽतिजागरम् । स्त्रीणामतिप्रसङ्गं च आाध्मानं च विवर्जयेत् ।। ४६० ।।