पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ } आयुर्वेदप्रकाश । •ላዲ आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः। एतास्तु समयान्भद्रे न लङ्घेद्रसभक्षणे ।। ४७३ ।। अथ रसवाग्भटे – (सांधितं पारदं शृङ्गदन्तवेण्वादिधारितम् । अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ।। ४७४ ॥ पर्णखण्डे धृतं स्रुतं जग् वा तदनुपानतः । घृतसैन्धवधान्याकजीरकार्द्रकसंयुतम् ॥ ४७५ ।। तण्डुलीयकधान्याकपटोलालाबुकादिकम् । कुस्तुम्बरी मरीचानि सैन्धवं समभागिकंम् ।। ४७६ ।। व्यञ्जनार्थं कृतं भोज्ये रससेवक उत्तमम् ।) गोधूमजीणैशाल्यन्नं गव्यं क्षीरं घृतं दधेि ॥ ४७७ ।। ह्रसीदेकं मुद्गयूषः पथ्यवर्गः प्रकीर्तितः । बृहतीबिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ॥ ४७८ ॥ माषं मयूरं निष्पावान् कुलत्थ सर्षपातिलान्। बन्धनोद्धतेनरुनानताम्रचूडसुरासवान् ।। ४७९ ।। आनूपमासधान्याम्ल भोजनं कदलीदले । काखे च गुरु विष्टम्भी तीक्ष्णोष्णं च भृगुं त्यजेत् । निषिद्धं वज्यँ मतिमान्विचित्ररसश्चुग्भवेत् ॥ ४८० ।। स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्नि:।।४८१ अथाज्ञानादशोधितपारदभक्षणे तद्विषशमनोपायमाह यद्यज्ञानात्कथमपि नागादेिकलङ्कितो रसो भुक्तः । तत्स्रावणाय विज्ञ: पिबेच्छिफा कारवेछिभवाम्।। ४८२ ।। अथ रसाजीर्णे शमनोपायमाह रसाजीर्णे महाव्याधीन् लक्षयेद्भिषगुत्तमः । షాs_R به کمه अभ्यङ्गमनिलक्षेोभे तैलैनोरायणादिभिः ।। ४८३ ।। १ () एतचिह्नान्तर्गत पाठ ख ग पुस्तकयोर्नोपलभ्यते ।