पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्वेदीयग्रन्थमाला । [अध्यायः वल्मीकैकूपतरुतलरथ्यादेवालयश्मशानेधु । जाता विधिनाऽपि हृता ओषध्यः सिद्धिदा न स्युः।॥५०२ अथ सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीं मुद्रामभिदध्म: अधस्ताप उपर्यापो मध्ये गन्धकपारदौ । यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ।। ५०३ ।। यदि कार्येमयोयत्रं तदा तं मृत्स्नया दिहेत् । समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् ॥ ५०४ ॥ जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः । चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।। ५०५ ।। भवेन् पञ्चगुणे सिद्ध: षङ्गुणे मृत्युजिद्भवेत् । इत्याद्युक्तमेव ॥ भस्मस्रुतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ।। ५०६ ॥ रुद्वा लघुपुटे पच्यादुधृत्य मधुसर्पिषा । निष्कं खादेञ्जरामृत्युं हन्ति गन्धामृतो रसः ।। ५०७ ।। समूलं भूराजं च छायूशुष्कं विचूर्णयेत् । तत्संमं त्रिफलाचूर्ण सूर्वतुल्या सिता भवेत् ।। ५०८ ।। पलैक भक्षयेच्चानु वर्षान्मृत्युजरापहः । इतेि गन्धामृतो रस: । मृतसूतस्य पादाशं हेमभस्म प्रकल्पयेत् ॥ ५०९ ॥ क्षीराज्यमधुना मिश्र माषैकं कान्तपात्रके । लेहयेनूासूट् तु जरामृत्युविनाशनम् ।। ५१० ॥ बाकुचीचूर्णकर्षकं धात्रीफलरसप्नुतम् । अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ।। ५११ ॥ इतेि हेमसुन्दरो रसः । १ ‘वल्मीकानूप'-ग ।