पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्वेदप्रकाश । ६३ त्रिघस्र लुङ्गाम्भोलवकदलेितः क्षौद्रहविषाऽ वलेिढो माषैक दरयति समस्त गदगणम् ॥ ५१२ ॥ जरां वर्षेकेन क्षुपयतेि च पुष्टि वेितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् । रसः श्रीमान्मृत्युञ्जय इति गिरीशेन कथितः प्रभावं को वाऽन्यः कथयितुमपारं प्रभवति ।। ५१३ ।। लुङ्गाम्भोलवकदलेित इति मातुलुङ्गद्रवं कणशो दत्त्वा त्रिदेिनं मर्दयेदित्यर्थः । इति मृत्युञ्जयो रसः । शुद्धं रसं समविषं प्रहरं विमद्य तद्भोलकं कनकचारुफले निधाय । दोलागत एच् दिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥ ५१४ ॥ तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्याऽवजार्ये कुरु भस्समं च तस्य । वैक्रान्तभस जयपालनवाशकार्ध सर्वैर्वेिषं द्विगुणितं मृदितं च खल्वे ।। ५१५ ।। घस्रत्रय कनकभृङ्गरसेन गाढ मावेश्य भाजनतले विषधूपभाजि । भृङ्गद्रवेण शिथिलं लघुकाचकूप्या मापूर्य रुद्धवसनं सिकताख्ययत्रे ॥ ५१६ ॥ दृष्ट्रा विचूण्र्य गदशालिषु शालिमात्रम् । आनन्दसूतमखिलामयकुम्भिसिहं गद्याणकार्धसितया सह देहेि पश्चात् ॥ ५१७ ॥