पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कील्यां दिशो धवलय स्फुरदिन्दुकान्ल्या वैद्येश्वरेतेि विरुदं भज वैद्यराज ॥ ५१८ ॥ तथा द्विवारमिति पूर्ववदखिलं द्विः कुर्यादिति भावः । गिरिश्लोचनयुग्मेतेि षड्गुणगन्धकं, युक्त्येति काचकूप्यादौ । इत्यानन्दस्रुतरसः । सूत गन्ध कान्तपाषाणमिश्र ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् । गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्वागोमयाभ्या धमेत्तम् । शुष्के यचे सत्त्वपातप्रधाने किट्टे सूतो बद्धतामेति नूनम् । बद्धं पश्चात्क्षारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेतु ॥ ५२० ॥ वक्रे खोटः स्थापितोवत्सरार्ध रोगान्सर्वान्हन्ति सौख्र्यकरोति। यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्ष्ये तत् । लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पितरोगे । वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत५२२ भार्गीमुण्डीकासमर्दाटरूषद्रावैगोंलं पाचयेच्छेष्मनुत्त्यै । कासे श्वासे तं च दद्यात्कषायं माध्वीकात्तं पिप्पलीचूर्णयुक्तम्॥ यस्मिन् रोगे य: कषायोऽस्ति चोक्तस्तस्मिन्गोलं पाचयित्वा कषाये दद्यात्तत्तद्रोगनाशाय प्रथ्यं तत्तद्रीगे कीर्तितं यत्तदेव । उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात्। युक्ल्या प्रागग्निसह्त्वं कृत्वा पश्चाद्धमेदिल्यर्थः । इतेि प्राणिकल्पद्रुमगोलरसः । रसुगन्धकताम्राणि सिन्दुवाररसैर्दिनम् । मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥ ५२५ ॥ रुद्धा मूषागतं यामत्रयं तीव्राग्निना पचेत् । तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह् ।। ५२६ ।।