पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] आयुर्वेदप्रकाश. । ६५ दातव्या देहृसिन्द्यर्थे पुष्टिवीर्येवलाय च । सेिन्दुवारो ‘निर्गुण्डी’ इति भाषा । इति त्रिनेत्ररसः । रसस्य द्विगुणं गन्धं शुद्धं संमर्देयेद्दिनम् ।। ५२७ ।। प्रतिलोहं स्रुततुल्यमृष्टलोहं मृतं क्षिपेत् । ब्राह्मी जयन्ती निर्गुण्डी विषमुष्टिः पुनेर्नवा ।। ५२८ ।। नीलिका गिरिकण्र्यकैकृष्णधचूरकं यवाः । अटरूषः काकमाची द्रवैरासां विमर्दयेत् ॥ ५२९ ॥ गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् । रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ।। ५३० ।। अष्टलोहं खणीदि । इति शार्दूलरसः । सूतभख चतुर्भागं लोहभख तथाऽष्टकम् । मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ।। ५३१ ।। Şİ" शिग्रुवह्निकटुक्यद्भिः सप्तधा भावयेत्पृथक् ।। ५३२ ।। निष्कमात्रं सदा खादेञ्जरां मृत्युं निह्न्यलम् ॥ ५३३ ।। ब्रह्मायुः खाचतुर्मासै रसोऽयममृतार्णवः । तिलं कोरण्टपत्राणि गुडेन भक्षयेदनु ॥ ५३४ ॥ कोरण्ट: ‘कण्टसैरेया' इति भाषा । इतेि अमृतार्णवरसः ॥ वृष्यगणचूर्णतुल्यं तत्पुटपकं सिताद्विगुणम् । वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥ ५३५ ।। अथ शतावर्यादिवृष्यगणचूर्णमाह —शतावरी विदारी गोक्षुर इक्षुरको वानरी बला कृष्णश्वेता मुसली मिस्त्रीक्षुरकबीजान्यतिबला इतेि वृष्यगणः । अत्र गन्धमूर्च्छितं रसमभ्रादिकं च ददतेि दाक्षिणाल्याः । इदं रसायनांख्यचूर्णरत्नं, अनुपेयं दुग्धादि ।