पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ आयुर्वेदीयग्रन्थमाला । विषं त्रिकटुकं मुस्ता हरिद्रा निम्बपल्लवम् । विडङ्गमष्टमं चूर्ण छागमूत्रैः समं समम् । चणकाभा वटी काय योगवाही जयाभिधा ॥ ५३६ ॥ इति जयावटी ॥ गन्धं लोहं भस्म मध्वाज्ययुक्त सेव्यं कर्ष वारिणा त्रैफलेन । शुभ्रे केशे कालेिमा दिव्यदृष्टिः पुष्टिर्वीर्य जायते गन्धलोहात् ॥ इति गन्धलोहम् । अष्टाशहेमृरजते शिखिमूषिकायां संजार्य षङ्गुणबलेि क्रमशोऽधिकं च । ऊर्ध्वं पयोऽग्नेिमधरे विनिधाय धीराः सिद्धिं समग्रमतुला खकरे कुरुध्वम् ।। ५३८ ।। अष्टांशेत्युपलक्ष्णं, अधिकमपि शतगुणपर्यन्तम् । रसगन्धकलोहाभ्रं समं सूताब्लि हेम च । सर्व खल्वतले क्षिप्तवा कन्याखरसमर्दितम् ॥ ५३९ ॥ एरण्डपत्रैरावेष्टय धान्यराशौ दिनत्रयम् । संस्थाप्य च तदुद्धृत्य सर्वरोगेषु योजयेत् ।। ५४० ।। एतद्रसूयनक्रूरं त्रिफलामधसंयुतम् । क्षयमेकादशविर्ध कासं पञ्चविधं तथा । कुष्ठमष्टादशविधं पाण्डुरोगान् प्रमेह्वकान् ।। ५४२ ।। शूर्ल श्वासंच मन्दाग्नेि हेिक्का चैवाम्लपित्तकम् । व्रणान् सर्वानाढ्यवातं विसर्प विद्रधि तथा ॥ ५४३ ॥ अपसारं ग्रहोन्मादान् सर्वाशासेि त्वगामयान् । क्रमेण शीलितो हृन्ति वृक्षमिन्द्राशनिर्यथा ॥ ५४४ ॥