पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ] आयुर्वेदप्रकाश । पौष्ट्रेि वायुमायुष्यं पुत्रूप्रसवकारणम् । चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ।। ५४५ ।। इंति चतुर्मुखरसः । इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायमाधवविरचितायुर्वेद प्रकाशे सूतसाधनाध्याय प्रथम समाप्त ॥ १ ॥ अथ द्वितीयोऽध्याय: ॥ अथोपरसा कथ्यन्ते । गन्धो हेिङ्गुलमभ्रतालकशिलाः स्रोतोञ्जनं टङ्कणं राजावर्तकचुम्बकौ च स्फटिका शङ्खः खटी गैरिकम् । कासीसं रसकं कपर्दसिकताबोलाश्व कडुष्ठक सौराष्ट्री च मता अमी उपरसाः स्रुतस्य केिचिद्गुणैः । तुल्याः स्युर्यदि ते वेिशोध्य विधिना संसाधिताः सेवितास्तत्तद्रोगह्वरानुपानसहितैर्योगैश्चिरायुःप्रदाः ।। १ ।। अथादौ गन्धकोत्पत्ति प्रकारं शोधनस्य च । नामलक्ष्णसंयुक्तं वक्तुमर्हसि शङ्कर ।। २ ।। ईश्वर उवाच - श्वेतद्वीपे पुरा देवि तीरे क्षीरपयोनिधेः । क्रीडन्त्याः सखिभिः सार्धमभवत् प्रसृतं रजः ।। ३ ।। बहुलं तद्रजोऽतीव सुगन्धि सुमनोहरम् । क्षुीरार्णवे तु खाताया दुकूल रजसान्वितम् ॥ ४ ॥ धीतं यत् सखिभिरूतत्र तञ्जात गन्धकं रजः । क्षीराब्धिमथ्ने चैतदमृतेन सहोत्थितम् ॥ ५ ॥ निजगन्धेन तान् सर्वान् हेर्षयन् देवदानवान्। ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ।। ६ ।। १ 'हर्षयामास दानवान् ग । ६७