पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

વૈ૮ आयुर्वेदीयग्रन्थमाला । [ अध्याय. रसस्य बन्धनाथोय जारणाय भवत्वयम् । ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ।। ७ ।। इत्ययं गन्धको नाम विख्यातः क्षितिमण्डले । बलेिना सेवितः पूर्व प्रभूतबलहेतवे ॥ ८ ॥ वासुकिं कर्षतस्तस्य तन्मुखज्वालया दुता । वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ।। ९ ।। गन्धकत्वं च संप्राप्ता तस्माद्धलेिवसा स्मृता । अथ गन्धकनामानि । गन्धको गन्धिकश्चापि गन्धपाषाण इल्यपि । सौगन्धिकश्च कथितो बलिर्बलिवसाऽपि च ।। १० ।। अथ गन्धकस्वरूपम् । चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । रक्तो हेमक्रियास्रुक्तः शुकतुण्डनिभो वरः ।। ११ ।। पीतश्चामलसाराख्यः श्रेष्ठो रसरसायने । श्वेतोऽत्र खटिका प्रोक्ता लेपने लोहमारणे । लेपने व्रणादिलेपने ॥ अथ शुद्धगन्धकगुणा: कथ्यन्ते-- दुर्लभः कृष्णवर्णेश्च स जरामृत्युनाशनः ।। १२ ।। गन्धाश्माऽतिरसायन: समधुरो ह्युष्णो विपाके कटुः कण्डूकुष्ठविसर्पददुदलनः संदीपनः पाचनः । आमोन्मोचनशोषणो विषहर: सूतेन्द्रवीर्ये गौरीपुष्पभवस्तथा कृमिहृरः सत्त्वात्मक: छ्तजित्॥१३ अन्यञ्चगन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः । पित्तलः कटुकः पाके कण्डुवीसर्पजन्तुजित् । हृन्ति कुष्ठं क्षयं प्लीहृकफवातान् रसायन: ।। १४ ।।