पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R ] आयुर्वेदमकाश* ॥ ६९ अथ शोधितगन्धकगुणाः । शुद्धो गन्धो हरेद्रोगान् कुष्ठमृत्युजरादिकान्। अग्निकारी महानुष्णो वीर्येवृद्धेि करोति हेि ।। १५ ।। अथान्दोोधितगन्धकदोषा: । अशुद्धगन्धः कुरुते च कुष्ठं ताप भ्रमं पित्तरुजं तथैव । रूपं सुखं वीर्यबलं निहन्ति तस्माद्विशुद्धो विनियोजनीयः॥१६ अथ गन्धकशोधनं कथ्यते । गन्धः सक्षीरभाण्डस्थो वखे कूर्मपुटाच्छुचिः। अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥ १७ ॥ अथ शोधनयोग्यगन्धकलक्षणम् । शुकपिच्छसमच्छायो नवनीतसमप्रभः । मसृण: कठिणः स्निग्धः श्रेष्ठो गन्धक उच्यते ।। १८ ।। अथान्यमते शोधनम् – लोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । तसे घृते तत्समानं क्षिपेद्भन्धकर्ज रजः ॥ १९ ॥ विदुतं गन्धकं ज्ञात्वा तनुवखे विनिक्षिपेत् । यथा वस्त्राद्विनिःस्टल्य दुग्धमध्येऽखिलः पतेत् ।। २० ।। शीतो निष्कासितो धौतो जलं वखेण शोषयेत् । एवं नैर्मल्यमापन्नो गन्धकः शुद्ध उच्यते ।। २१ ।। एवं वारत्रयं शोध्यो भिन्ने दुग्धे प्रयत्नतः । भक्ष्णार्थं हेि भिषजा योगार्थं सकृदेव च ।। २२ ।। वस्त्रनिगलितशुद्धस्य प्रयोजनमाह् वाग्भटः एवं संशोधितः सोऽयं पाषाणानम्बरे यजेत् । घृते वेिषं तुषाकारं खयं पिण्डत्वमेति च ।। २३ ।।