पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૭૨ आयुर्वेदीयग्रन्थमाला । [ अध्याय वछेन प्रमितं शुद्धं सूतेन्द्रं च विमर्दयेत् । अङ्गुल्या च सपत्रां तां द्रुति सूतं च भक्ष्येत् ॥ ३९ ॥ करोति दीपनं तीव्रं क्ष्यं पाण्डुं च नाशयेत् । कार्स श्वासं च शूलार्ति ग्रहणीमपि दुधेराम्। आामं विनाशयत्याशु लघुत्वं प्रकरोति च ।। ४० ।। इति षष्ठो गन्धक्क्ल्प: । अन्यञ्चशुद्धो बलेिगॉपयसा त्रिवारं ततश्वतुर्जातगुडूचिकाद्भिः । पथ्याक्ष्धात्र्यौषधभृङ्गनीरैर्भाव्योऽष्ठवारं पृथगार्द्रकेण ॥ ४१ ॥ सिद्धे सितां योजय तुल्यभागा रसायनं गन्धर्केसंज्ञितं स्यात् । धातुक्षयं मेहगणाग्निमान्द्य शूलं तथा कोष्ठगताश्च रोगान्॥४२ कुष्ठान्यथाष्टादश रोगसंघान्निवारयलेव च राजरोगम्। कर्षोन्मिते सेवित एति मर्त्यो वीर्य च पुष्टेि बलमग्निदीतिम्।४३ वमनै रेचनैः पूर्वं देहृद्युद्धि: समाचरेत् । जाङ्गलानि तु मांसानि छागलानि प्रयोजयेत् ॥ ४४ ॥ लवणाम्लानि शाकानि द्विदलानि तथैव च । स्त्रियश्चारोहणं यानं सदा चैतानि वर्जयेत् ॥ ४५ ॥ इतेि सम: सर्वोत्तमो गन्धकरसायनकल्प: । वातारितैलसंयुक्तस्त्रिफलाकौशिकेन तु । गन्धको रससंयुक्तो जराव्याधिविनाशनः ।। ४६ ।। मासमात्रप्रयोगेन शृणु वक्ष्यामि तद्गुणान् । अर्शो भगन्दरश्चैव तथा श्लेष्मसमुद्भवाः ।। ४७ ।। नश्यन्ति व्याधयः सर्वे मासेनैकेन गन्धकात् । षण्मासस्य प्रयोगेण देवतुल्यो भवेन्नरः ।। ४८ ।। १*विशोषयत्याशु' गा ॥ २ ‘विभाव्य ? ग । ३ ‘गन्धकसज्ञक’ ग ।