पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R・] आयुवेदप्रकाश । ७३ हंसवर्णाश्च ये केशा वलेिचैव प्रलम्बिनी । चला दन्ता मन्ददृष्टिर्बलशुक्रादिसंक्ष्यः ।। ४९ ।। निर्जित्य यौवनं याति भ्रमरा इव मूर्धजाः । दिव्यदृष्टिर्महाप्राणो वराह् इव कर्णयोः ।। ५० ।। चक्षुषा ताक्ष्येतुल्योऽसौ बलेन बलविक्रमः । दृढदन्तो वज्रकायेो द्वितीय इव इाडुर: । तस्य मूत्रपुरीषेण द्युल्ब भवतेि काञ्चनम् ।। ५१ ।। डल्यष्टमो गन्धककल्प: ॥ गन्धकस्य पल चैकं रसस्यार्धपलं तथा । कुमारीरससंघृष्ठ दिनैक गोलकीकृतम् ।। ५२ ।। अन्धमूषाधृतं ध्मात लेहयेन्मधुसर्पिषा । मासमात्रप्रयोगेण जरादारिद्र्यनाशनम् ।। ५३ ।। इतेि नवमो गन्धककल्प: । त्रिफला गन्धक भृङ्ग समभागानि कारयेत्। संवत्सरप्रयोगेण जीवेच्चन्द्रार्कतारकम् ॥ ५४ ॥ इति दशमो गन्धककल्प: ॥ गन्धकस्य पल चैक पिबेत्क्षीरेण संयुतम् । संवत्सरप्रयोगेण जीवेच्चन्द्रार्कतारकम्। अवश्यः सर्वभूताना द्वितीय इव शङ्करः ।। ५५ ।। इत्येकादशी गन्धककल्पः ॥ अकैक्षीरै : खुहोक्षीरैर्वखं लेप्यं तु सप्तर्धा । गन्धक नवनीतेन पिष्ट्रा लिम्पेञ्च वस्त्रके ।। ५६ ।। तद्वर्तिर्ज्वलिता दंशघृता धार्या त्वधोमुखी । तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ।। ५७ ।। इतेि गन्धकतैलम् । १ ‘व्याप्तये' ख । وية