पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

છ ] आयुर्वेदप्रकाश । ६७\S तद्वज्रं वज्रजातत्वाद्भ्रमभ्ररवोद्भवान् । गगनात्पतित यस्माद्भगनं च ततो मतम् ॥ ३ ॥ ब्रह्मक्षत्रियविट्शूद्रभेदात्तत्स्याच्चतुर्विधम् । क्रमेणैव सितं रक्तं पीत कृष्णं च वर्णतः ।। ४ ।। प्रशस्यते सेितं तारे रक्ते ततु रसायने । पीत हेमनि कृष्णे तु गदेषु द्रुतयेऽपि च ।। ५ ।। पिनाकं दर्दुरं नाग वज्र चेति चतुर्विधम् । कृष्णाश्रु कथित प्राज्ञैस्तेषा लक्ष्णमुच्यते ।। ६ ।। मुञ्चल्यम्रो विनिक्षिप्त पिनार्क दलसचयम् । अज्ञानाद्भक्ष्णं तस्य महाकुष्ठप्रदायकम् ।। ७ ।। दर्दुर त्वग्निनिक्षिप्रं कुरुते दर्दुरध्वनिम् । गोलकान् बहुशः कृत्वा तस्यान्मृत्युप्रदायकम् ।। ८ ।। नागं तु नागवद्वह्नौ फूत्कार परिमुञ्चति । तद्भक्षितमवश्य तु विदधाति भगन्द्रम् ।। ९ ।। वज्र तु बज्रवन्तिछेन्न चूमौ विकृति व्रजेत् । सवोभ्रेषु वर वज्र व्याधिवार्धेक्यमृत्युजित् ।। १० ।। अन्यत्रापि– यदञ्जननिभं क्षिप्तं न वह्नौ विकृति व्रजेत् । वज्रसह्वं हेि तद्योग्यमभ्र सर्वत्र नेतरत् ॥ ११ ॥ अभ्रेमुत्तरशैलोत्थे बहुसत्त्व गुणोत्तरम् । दक्षिणाद्रिभवं खल्पसत्त्वमल्पगुणोत्तरम् ॥ १२ ॥ अभ्रग्रहणे विशेष:अभ्रं गृह्रीतं खनितो भिषग्भिः संखानयित्वा पुरुषप्रमाणम् । तद्भारवत्सत्त्वफलप्रदं स्याद्गुणाधिक खल्पगुणं ततोऽन्यत् ॥१३ १ ‘अभ्रक पूर्वशैलोत्थ’ ग ।