पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V5< आयुर्वेदीयग्रन्थमाला । [अध्याय* अथ वज्राभ्रकगुणा: अभ्रं कषायं मधुरं सुशीतमायु:करं धातुविवर्धन च । हन्यात्रिदोषत्रणमेहकुष्ठप्लीहोदरग्रन्थिविषकृमीश्व ॥ १४ ॥ रोगान् हृन्ति दृढयति वपुर्वीयेवृद्धिं विधत्ते तारुण्याढ्य रमयति शत योषिता नित्यमेव । दीर्घायुष्यान् जनयति सुतान् विक्रमैः सिंहृतुल्या न्मृत्योर्भीति ह्रति सतत सेव्यमान मृताभ्रम् ।। १५ ।। अथाशुद्धस्य मारणे दोषमाहपीडा विधत्ते विविधा नराणा कुष्ठं क्षय पाण्डुगदं च शोफम् । हृत्पार्श्वपीडा च करोत्यशुद्धमभ्रं हि तद्वद्गुरु वह्निहृत्खात्॥१६॥ अथ मृताभ्रस्यापि लक्षणगुणदोषानाह निश्चन्द्रक सुसूक्ष्मं च लोचनाञ्जनसंनिभम् । तदा तु मृतमित्युक्तमभ्रकं नान्यथा मृतम् ।। १७ ।। अन्यञ्च मृत निश्वन्द्रता यातमरुणं चामृतोपमम् । सचन्द्र विषवज्ज्ञेयं मृत्युकृश्याघ्ररोमवत् ।। १८ ।। व्याघ्रश्मश्रुरोम यद्वन्मारयति तद्वदित्यर्थः । अस्य मारणे पुटसंख्यामाह शतादेिस्तु सहस्रान्त: पुटो देयो रसायने । दशादिस्तु इतिान्तः स्याद्याधिनाशनकर्मणि ।। १९ ।। सहूस्रपुटपक्षे तु भावनू पुटन भवेतू । मदेन तु तथा न स्यादिति प्राचा हेि संमतम् ॥ २० ॥ अथास्यानुपानं मात्राप्रमितिश्व वेळव्योषसमन्वितं घृतयुत वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाञ्झुलै च कुष्ठामयम् । १ *तज्जाठरवह्निहृत्? ग ।