पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<R आयुर्वेदीयग्रन्थमाला । [अध्याय तालीसपत्रं ३१, चित्रकमूलपत्रं ३२, जलकुम्भी ३३, तालमूली ३४, वृषः ३५, वाजिगन्धा ३६, अगस्त्यपूर्व ३७, शृङ्गराजः ३८, कदलीकन्दरसः ३९, सूतपर्णेः ४०, देवदारू ४१, गुडूची ४२, धत्तूरः ४३, कासमदेकः ४४, मातुलानी ४५, लोध्रः ४६, तुलसी ४७, दूर्वा ४८, मारीषः ४९, मूषकपर्णी ५०, दाडिमपल्लवा: ५१, घोण्टा ५२, शङ्खपुष्पी ५३, नागवल्ली ५४, पिण्डीतगर ५५, श्वेतपुनर्नवा ५६, हिलमोचिका ५७, मण्डूकपणीं ५८, तिक्तिका ५९, मदनः ६०, इल्यादिभिमैदैनपुटनैरेकैकेनाप्यभ्रको मारणीयः । इति अभ्रकमारणीयगणः । आाभिर्यथालाभं सहस्रपुटा देया: । यथासंख्य च प्रत्येक सप्तदशपुटा: प्रायशो भवन्ति । एव सहृस्रसंख्या पूर्येते । इति सहस्रपुटि ॥ अथारुणभस्मन आकाङ्का भवति चेत्तत्प्रकारो रसपद्धल्या– अथ नागबला भद्रमुस्ता दुग्ध वटस्य च । यद्वा वटजटातोय हरिद्रावारिणा पुटेत् ॥ ४२ ॥

  • \\ - N

मञ्जिष्ठाकाथतोयेन सर्वेरेभिर्यथाक्रमम्। पुटितं भावनायोगाच्चरमे पुटने मुहुः । जायते ह्यरुणं चाति भस्म वज्राभ्रकोद्भवम् ।। ४३ ।। अथैवं मृतस्याभ्रकस्यामृतीकरणाख्य: संस्कार उक्तः । अरुणभखनस्तु पुनरमृतीकरणेन गुणवृद्धिर्वर्णहानिश्व भवति । तद्यथा-- त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ ४४ ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुवद्विना । द्रवे जीणें समादाय सर्वरोगेषु योजयेत् ॥ ४५ ॥