पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ] आयुर्वेदप्रकाश । < & अथान्यत्रापि वराम्बु गोघृतं चाभ्रं कलाषड्दिक्समाशकम् । मृद्वग्निना पचेल्लौह्याममृतीकरणं त्विदम् ॥ ४६ ॥ गोघृतेनैवामृतीकरणमुक्त, तद्यथा तुल्य घृत मृताभ्रेण लोहपात्रे विपाचयेत् ॥ घृते जीर्णे ततश्रूर्ण सर्वकार्येषु योजयेत् ॥ ४७ ॥ इत्यमृतीकरणम् । अथाभ्रकसेविना वज्र्यपदार्थानि कथ्यन्ते क्षाराम्लविदलं कोलं कर्कटी कारवेल्लकम् । वृन्ताक च करीरं च तैलं चाश्रे विवर्जयेत् ।। ४८ ।। अथाभ्रकसत्त्वनिष्कासनवेिधिः कथ्यते – चूणीकृतं गगनपत्रमथारनाले धृत्वा दिनैकमवशोष्य च सूरणस्य । भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादाझाटङ्कणयुतं शफरैः समेतम् ।। ४९ ।। पिण्डीकृत तु बहुधा महिषीमलेन सशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ । सत्त्वं पतल्यतिरसायनजारणार्थ योग्य भवेत्सकललोहगुणाधिकं च ॥ ५० ॥ एव पतिते सत्त्वे तत: कि कार्य तदाह कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् । मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ।। ५१ ।। घृतमधुगुग्गुळुगुञ्जाटङ्कणमेत्तत्तु मित्रपञ्चकं नाम । मेलयतेि सप्तधातूनङ्गाराग्नौ तु धमनेन ।। ५२ ।।