पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

く? आयुर्वेदीयग्रन्थमाला । [ अध्याय अथास्य सत्त्वस्य शोधनमारणमाह अयोवच्छोधन तस्य मारणं तद्वदेव तु । यद्वा-मारित ताम्रवद्भन्धपारदाभ्या निषेचयेत् ॥ ५३ ॥ पिण्डीकृर्त तु बहुधेत्यस्य व्याख्या-तिन्दुकप्रमाणान् बहुपिण्डान् गोलकान् कृत्वेल्यर्थ: । कोष्ठगतमिति व्याख्याअधःपातनकोष्ठया स्थापितम् । मारणं तद्वदेव तु व्याख्यात्रिफलादिभिलॉहवद्भावयित्वा विशतिवारं षष्ठिवार शतवार वा पुटयित्वा सत्त्वभस्म संपाद्यं भक्ष्णार्थे, रसे जारणार्थं तु शोधयित्वा जायेम् । अथास्य गुणा:— सत्त्वमभ्रस्य शिशिर त्रिदोषघ्न रसायनम् । विशेषात्पुंस्त्वजनन वयस: स्तम्भन परम् ।। ५४ ।। नानेन सदृशं किचिद्वैषज्यं पुंस्त्वकृत्परम् । सत्त्वसेवी वयःस्तम्भं लभते नात्र संशयः ।। ५५ ।। अथान्यञ्च सर्वेषामुपपूर्वाणा रसानो सत्त्वमार्णम् । कर्तव्यं भसेस्तेन गन्धकेनाग्निगर्भके ।। ५६ ।। यचूोपुरसभागोऽस्ति रसे तत्सत्त्रयोजनम् । कतेंव्यं षडुणाधिक्याद्रसज्ञत्वमभीप्सता ॥ ५७ ॥ अथ सामान्यतः सर्वेषा सत्त्वपातनमुच्यते— गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा । ऊर्णा सजेरसश्चैव क्षुद्रमीनसमन्वितम् ॥ ५८ ।। सत्त्वपातनद्रव्येण सयुक्ते खल्वमध्यके । एतत्सर्व तु संचूर्ण्य छागदुग्धेन पिण्डकाः ।। ५९ ।। कृत्वा ध्माताः खराङ्गारैः सत्वं मुञ्चन्ति निश्चितम्