पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

છે ] आयुर्वेदप्रकाश । <* पाषाणमृत्तिकादीनो लोहान च पृथक्पृथक् । अन्येषामप्यसाध्यानां व्योमसत्त्वस्य का कथा ॥ ६० ॥ সথ सत्त्रप्रसंगाद्दूतयोऽपि लिख्यन्ते, अत्र केचिद्वदन्ति ढुतयो नैव जायन्ते शाखे प्रोक्ता अपि धुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाचन ।। ६१ ।। इलेवमस्तु, तथाऽपि शास्रारूढत्वात्कदाचिद्भाग्ययोगाच्छङ्करभक्त्या सि-यन्ति, अतो मयाऽत्र लिख्यन्ते, यथा अगस्त्यपत्रनिर्यासैर्मदिँर्त धान्यकाभ्रकम्। स्रुरणोदरमध्ये तु निक्षिप्तं लेपित मृदा ।। ६२ ।। गोष्ठभूमौ खनित्वा तु हरूतमात्रे हेि पूरितम्। मासान्निष्काशितं तत्तु जायते पारदोपमम् ।। ६३ ।। डल्यभ्रकदुति: ॥ निजरसबहुपरिभावितसुरदालीचूर्णमात्रवापेन । द्रवति पुनः संस्थान भजते गगनं न कालेऽपि ।। ६४ ।। इत्यभ्रकद्रुति: । निजरसशतपरिभावितकक्षुकिकन्दोत्थचूर्णपरिवापात् । द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वोणि लोहानि ।। ६५ ।। इत्यभ्रकसत्त्वद्वृतिः सर्वलोहृद्रुतिश्च । अथानेकदुतिमेलनमाह कृष्णागरुनाभिसितै रसोनसितरामठैरिमा द्रुतयः । सोष्णे मिलन्ति मद्याः स्रीकुसुमपलाशबीजरसैः ॥ ६६ ॥ अथ मुक्ताफलानादुति तथाऽन्येषामपि रत्नाना दुतिप्रकारमाह मुक्ताफलानि सप्ताहँ वेतसाम्लेन भावयेत्। जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ ६७ ॥ १ “कृष्णागुरुणा मिलितै' ग ।