पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

બ ] आयुर्वेदप्रकाश । <V9 मृत्युकल्पं महाव्याधि वातपित्तकफोद्भवम् । हन्त्यष्टादशकुष्ठानि नृणा पथ्याशिना धुवम् ॥ ७८ ॥ इत्यभ्रककल्प: ॥ इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे चतुर्थोऽध्याय ॥ ४ ॥ अथ पञ्चमोऽध्यायः ।। अथ हरितालस्य नामलक्षणगुणशोधनमारणाध्याय । हरितालं तु तालं स्यादालं तालकमिल्यपि । हरितालं द्विधूा श्रोक्तं पुत्रारूय पिण्डसंबूकम् ॥ १ ॥ तयोरां गुणै: श्रेष्ठ ततो हीनगुण परम् । खर्णवर्णं गुरु स्निग्ध सपत्रं चाभ्रपत्रवत् ।। २ ।। पत्राख्यं तालकं विद्याद्गुणाढ्य तद्रसायनम् । निष्पत्रं पिण्डसदृशं खल्पसत्त्वं तथा लघु । स्रीपुष्पहारक खल्पगुणं तत् पिण्डतालकम् ॥ ३ ॥ हृरितालं कटु स्निग्ध कषायोष्णं ह्रेद्विषम् । कण्डूकुष्ठादिरोगास्रकफपित्तकचव्रणान् ॥ ४ ॥ अथाशुद्धस्यासम्यङ्य़ारितस्य च दोषानाह— हराते च हरिताल चारुता देहजाता सृजति च बहुतापानङ्गसंकोचपीडाः । वितरति कफवातौ कुष्ठरोगं विदध्या देिदमशितमद्युद्धं मारितं वाऽप्यसम्यक् ।। ५ ।। शोधितं हरितालं तु कान्तिवीर्यविवर्धनम् । कुष्ठादिपायरोगझं जरामृत्युहरं परम् ॥ ६ ॥ अशुद्धतालमायुझं कफमारुतमेहकृत् । तापस्फोटाङ्गसंकोचान् कुरुतेऽतो विशोधयेत् ॥ ७ ॥