पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१०७

पुटमेतत् सुपुष्टितम्
75
द्वितीयप्रश्नः

ज्जाताजीर्णजन्यामयविकारो विरुद्धधातुप्रभवो भवति तत्र तेनोच्चारितशब्दभेदात्सिरा विज्ञाय तत्स्थानगतवर्णविरुद्धमिदं वर्णमिति तद्वर्णजनकसिरास्थितिं विज्ञाय दोषधातुगत्याऽसृग्विकारो यत्र दृश्यते तत्र दुष्टाशयं विज्ञाय तत्तद्धेतुकसिराजालं च विज्ञाय तद्धेतुकृतामयाधिष्ठानस्थलं विज्ञाय सिरावेधनकर्मणां तद्धेतुजन्यामयो निवर्त्य इति "सिरासृग्विभागविधिं ज्ञात्वा विमोचयेत्” इति सूत्रमीरितमित्यर्थः । तत्सर्वमायुर्वेदद्वितीयप्रश्ने उक्तमित्यलमतिप्रसङ्गेन ॥

 ननु प्रजाजननहेतुभूतं वार्धिकद्रव्यमेव भवति । इत्थमेव प्रथमसूत्रे प्रतिपादितम् । यावद्विकारो यत्र दृश्यते तदानीमेव तन्निवर्तकेन स निवर्तितो भवतीति प्रतिपादितम् । यावद्विकारेऽपि लङ्घनेनैव निवर्तत इति कथं प्रतिपादितम् ? कथमेतत्सिरासृग्विमोचनेन कार्यमित्यस्वरसादाह-- नीरुजेति ।

 नीरुजावयवादीदृशौ पितरौ ॥ ४९ ॥

 तयोश्च सर्वावयवाः पुष्टास्सन्तः प्रजोत्पादका भवन्तीति तेषामवयवानां रक्तधातुविकारे सति प्रतिबन्धकं भवति । तदविकारकरणार्थमयं विधिरिति, तथा मातापित्रोरवयवाः अविकारफलं प्रयच्छन्तीति सूत्रमीरितम् ।

प्रसन्नवर्णेन्द्रियमिन्द्रियार्थान् इच्छन्त इत्याहतरक्तवेगम् ।
सुखान्वितं पुष्टिबलोपवर्णं विशुद्धरक्तं पुरुषं वदन्ति ॥

एतद्वचनानुसारेण पुरुषपदं मिथुनोपयोगिपदप्रतिपादकत्वात् स्त्रियमपि विषयीकरोति, प्रजाजनने उभयोरपि संयोगस्य हेतुत्वात् । ननु पूर्वोक्तरीत्या अरोगकार्यजन्यफलप्रदानमेव सिरासृग्विमोचनकर्मणः प्रयोजनमित्युक्तम् । एतेन तयोः कार्यकरण