विषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति तद्विषयकज्ञानगोचरप्रत्ययहेतुकत्वात्, यन्नैवं तन्नैवं, यथा कालादिः ।
अनलत्ववद्द्रव्यविशिष्टपृथिवीद्रव्यं आम्लरसवद्विषयकज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति आम्लरसवद्द्रव्यविषयकज्ञानगोचरज्ञानकार्यहेतुकत्वात्, यन्नैवं तन्नैवं, यथा कालादिः ।
अब्द्रव्यविशिष्टानलत्ववद्द्रव्यं लवणरसज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति लवणरसवद्विषयकज्ञानगोचरज्ञानकार्यहेतुकत्वात्, यन्नैवं तन्नैवं यथा कालादिः ।
गगनविशिष्टानलत्ववद्द्रव्यं तिक्तरसवद्ज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति तिक्तरसवद्द्रव्यविषयकज्ञानगोचरप्रत्ययकार्यकारणत्वात्, यन्नैवं तन्नैवं, यथा कालादिः ।
अनलत्वविशिष्टानलद्रव्यं ऊषणरसवद्द्रव्यविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति ऊषणरसवद्द्रव्यविषयकज्ञानगोचरज्ञानकार्यहेतुकत्वात्, यन्नैवं तन्नैवं यथा कालादिः ।
पृथिवीत्वविशिष्टानलद्रव्यं कषायरसवज्ज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति कषायरसवदर्थविषयकज्ञानगोचरकार्यदहेतुकत्वात्, यन्नैवं तन्नैवं, यथा कालादिः
अत्र सूत्रवचनम्--
क्ष्माम्भोऽग्निक्ष्माम्बुतेजःखवाय्वग्न्यनिलगोऽनिलैः । |