पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३३

पुटमेतत् सुपुष्टितम्

आयुर्वेदे तृतीयप्रश्नः.


 ननु रसज्ञानं लब्ध्वाऽऽनन्दी भवतीति सूत्रव्याख्यानं कृतम् । तच्चिन्त्यं जीवात्मनां आनन्दानुभववत्त्वं, बाह्येन्द्रियाणां बाह्यार्थविषयकगोचरज्ञानं आनन्दहेतुकं न भवति, तद्विषयकज्ञानानुभवस्य इन्द्रियार्थसंयोगकालमात्रं आनन्दहेतुकं, तद्विनाशे सति तन्नाशात् । बाह्येन्द्रियविषयानुभवस्य तत्संसर्गनाशे सति तन्नाशात् इत्यस्वरसादाह-- अथेति ।

 अथ योगानुशासनम् ॥ १ ॥

 अथशब्देनानन्तर्यं सूच्यते । षड्रसवद्द्रव्यादनस्य शरीरदार्ढ्यकार्यहेतुत्वं सम्प्रतिपादितम् । तस्माद्दृढतरधातव आत्ममनस्संयोगसम्पादनार्थं हेतुभूतास्संतः तद्विषयकज्ञानानुभवानन्दं अन्तरिन्द्रियात्मसंयोगजन्यं भवतीति मनसि निधायाह जीवात्मनः परमात्मानुसन्धानमानन्दहेतुकं भवतीति ।

 ननु योगानुशासनमपि अजीर्णाभावसम्पादनार्थं कारणं भवतु । तथा सति आमनिवृत्तेरेव फलत्वात् अनिष्टपरिहारमात्रं फलं लभ्यत इत्यत आह-- तस्मादिति ।

 तस्माद्योगः फलदः ॥ २ ॥

 विषयानुभवो विषयानन्दहेतुकः । आत्मानुभवोऽप्यात्मानन्दहेतुकः, आनन्दहेतुककार्यस्य उभयोरपि समानत्वात् । योगानुशासनेन किमधिकफलं लभ्यत इत्याशङ्क्य अनित्यविषयकज्ञा