पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९१

पुटमेतत् सुपुष्टितम्
159
चतुर्थप्रश्नः

दर्शनेन कार्यकारणभावः गृहीतुं शक्यते । तद्विरसद्रव्यादनं उदरामयहेतुकमिति कार्यकारणभावो ग्राह्यः । तस्मात्पवनाद्यप्रकोपकार्यसम्पादनार्थं तत्रैव क्रियाक्रमज्ञानं विवक्षितम् । तथा हि--उदरामयहेतुकामनिवृत्तिकरणद्रव्यं न केवलं प्रयोजकं भवति । वाताप्रकोपकामययोगः कार्यः । स एव क्रियाक्रमः । तस्मात्सेयमविपत्तिरिति दोषत्रयेण अविपत्कार्यं ज्ञाप्यते । एतद्विरेचनकरणं जठराग्निवर्धकं मन्दानलहेतुकद्रव्यजातामयनिवर्तकत्वे सति अनलप्रवर्धकद्रव्यत्वात् । दोषनिवर्तकव्यापत्प्रकृते उदरामयचिकित्सायां तदेव प्रतिपादितम्--

व्याघ्राश्वगन्धा च पुनर्नवा स्यात् पिण्याकशिग्रूणि रसोनपित्सु ।
सवज्रवल्लीकरिकर्णकुण्डलं रुजापहं सूरणतिक्तपत्रम् ॥

अस्मिन्योगे केवलविरेचनद्रव्याणि स्वादुरसवद्विरेचनद्रव्याणि प्रतिपादितानि । पवनाद्यप्रकोपकारकविरेचनगुणाभावकार्यद्रव्याणि प्रतिपादितानि । न केवलविरेचनकरणस्य पवनप्रकोपकारकत्वमिति पूर्वसूत्रे प्रतिपादितम् । तच्चिन्त्यम् । तेन पित्तप्रकोपो भवति । तन्निदानभूतलिङ्गानि भ्रममूर्च्छाविदाहारत्यरुच्यादीनि ज्ञातव्यानि । पित्तोद्रेकजातोदरामयस्य लक्षणानीत्यर्थः । कषायतिक्तस्वादुरसद्रव्यादनात् प्रकोपहेतुकपवनः सिरामार्गस्थितपवनविगत्या रसासृग्धातुसारं स्रावयति । तत्सार एव पित्तमिति विज्ञेयम् । अयं पित्तोदरामयज्ञापक इति वक्तव्यम् । सरन्ध्रकाभ्यन्तरधरैस्तु अन्तराळमार्गेषु बिरुद्धपित्तं पूर्यते । अनिलविगत्या रसासृग्धातुसारेण उदराभ्यन्तरपूरणात् धातुपचनवत् । जठरानलस्य अजीर्णद्रव्यत्वात् कुक्षौ विपक्षाद्वर्द्धते स एव पित्तोदरामय इत्याह--विरसेति ।