पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९२

पुटमेतत् सुपुष्टितम्
160
आयुर्वेदसूत्रे

 विरसद्रव्यादनाजीर्णजन्यसिरामार्गस्थितपवनविगत्या सिरारसातिप्रस्रवणादजीर्णादामाम्बुवृद्धेरुदरं जायते ॥ २१ ॥

 विरसद्रव्यादनजन्यपित्तोदरस्य हेतवो वक्तव्याः । कषायरसविरसद्रव्यादनेन वा तिक्तरसविरसद्रव्यादनेन वा पित्तप्रकोपो भवति । अनलाजीर्णद्रव्यत्वात् । तन्निवर्तनं लङ्घनादेव भाव्यम् । यत्र कषायतिक्तस्वादुरसविरसद्रव्यादनमुपलभ्यते तत्र पित्तोदरामयोत्पत्ति । तत्र सूत्रवचनं--

कषायतिक्तमधुराः पित्तमन्येषु कुप्यते । इति ॥

 अन्येष्विति कषायतिक्तस्वादुरसवत् पित्तप्रकोपनिवर्तकम् । तद्विरसाः पित्तप्रकोपकारकाः । एतत्त्रयाणां मध्ये एकरसद्रव्यादनजन्यपित्तप्रकोपस्य निवर्तकं तद्विरसान्यरसादनम् । न तद्व्यतिरिक्तशुद्धरसाः उदरामयहेतुकाः पित्तप्रकोपनिवर्तकरसविरसा इति “पित्तमन्येषु कुप्यते" इत्येतद्वचनस्य तात्पर्यम् ।

 कषायतिक्तव्यतिरिक्तस्वादुरसवद्व्यतिरिक्तरसविरसद्रव्यादनं उदरामयहेतुकं जठरानलाजीर्णद्रव्यादनत्वात् यन्नैवं तन्नैवं यथा घटः । एकरसविरसद्रव्यादनं नोदरामयहेतुकं जठरानलजीर्णद्रव्यादनत्वात् इत्यनुमानप्रमाणेन कषायतिक्तस्वादुरसविरसद्रव्यादनमेळनस्य उदरामयहेतुकत्वं सुप्रसिद्धमिति भावः ।

 ननु अष्टविधोदरामयानां कारणीभूतद्रव्याणि षड्रसविरसद्रव्याणि । लोके एतद्व्यतिरिक्तानामभावेन इतररोगाणां कारणीभूतद्रव्याभावात् सर्वेषामप्युदरामयप्रसङ्ग एव स्यादित्यस्वरसादाह--तावदिति ।