पुटमेतत् सुपुष्टितम्
166
आयुर्वेदसूत्रे
क्लिमिजनकप्लीहोदरामयस्तथा[१] ॥ २७ ॥
अस्यार्थः-- क्लिमयस्तु विरसजातामयजन्याः । तेभ्यो जातप्लीहोदरामयास्सम्भवन्ति, क्लिमेस्सारजन्यमांसग्रन्थिरूपत्वात् । तस्य जठरानलकार्यस्य प्रयोजकत्वात् तद्वदेव दोषप्रयुक्तो भवति । तस्मादष्टविधोदरामयस्सङ्गच्छत इत्यर्थः ।
पाण्डुशोफविसर्परोगाणां प्रतिपादनस्यावसरत्वात् उदरामयजनकसिरामार्गगतपवनगत्या उदरामयकार्यधातुत्रयदोषैकजन्यत्वस्य एतेषामपि समानत्वात् उदरामयनिरूपणानन्तरमेतन्निरूपणस्य प्रस्तुतत्वादाह--कट्विति ।
कट्वम्ललवणरसवद्द्रव्यादनजातमल[२] मार्गावरोधनात् तत्सिरारन्ध्रमार्गगतोर्ध्वहृत्परिपूरणपवनप्रकोपनात् पाण्डुशोफविसर्परुक्प्रदो भवति ॥ २८
- ↑ A.B. कोशयोरेतन्न दृश्यते.
'कफं करोति' इत्यन्तसूत्रादनन्तरं कट्वम्ललवणादिसूत्रात् प्राक् अधोलिखितः अधिपाठः A. B. कोशेषु दृश्यते--
"त्रिदोषप्रकोपजनकमन्दानलसन्धुक्षणकारकपवनयोगजन्यजठरानलप्रवर्धक सिरामार्गपूरितानिलानलदोषजन्यरोगहारकः । वज्रारवह्निपरा विश्वा वधूवरा वर्णाङ्गी वर्षाभूवर्धमानः । तत्तत्क्रियोपकारकक्काथकल्कतैलघृतलेह्यादयो निवर्तकाः । पवनप्रकोपकार्योदरामयनिवर्तकाः । निवर्त्यो रोगः । पवनपूरणकार्यंदुस्साध्योदरामयविनाशकम् । पर्जन्या पांशुपर्णी तारा नेता वीता धावनी सुवृता । मूर्तिका तुद्रिका कार्मुकः किरातकः । कटुकः । कशेरुकः । क्रोष्ठुकः । त्रिकण्टकः । बर्बुरकः । कुरण्टकः । कशेरुकाः । सरसासृङ्मांससरित्प्रभवति" । A.
वजीदधिवाह्निनरा विश्ववधूधरवर्णा वर्षाभूवर्धमानः... घृतपङ्कादयः इति पाठभेदः--B. - ↑ जतामलमार्गा A-B.