पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०६

पुटमेतत् सुपुष्टितम्
174
आयुर्वेदसूत्रे

 ननु पवनविकारा बहवस्सन्ति । तथाहि नेत्रवायुः, कर्णवायुः, शिरोवायुः, पक्षाघातवायुः, धनुर्वायुः, अर्दितवायुः, गुल्मवायुः, प्लीहवायुः, कटिवायुः, इति । तत्तल्लक्षणलक्षितानि तत्तद्ज्ञापकान्यपि बहूनि सन्ति । सिरासंचरितपवनगतिविकारभेदात् तत्तदङ्गस्थितानि तत्तद्विकारभूतानि । एक एव पवनस्सन् तत्तदङ्गगतोपाधिभेदात् तत्तन्नामाभिधेयाः तत्तदङ्गोपद्रवकारकाः प्रणघातुकाश्च भवन्तीत्यस्वरसादाह--तदिति ।

 तत्सिरामार्गगतपवनप्रकोपभेदाधिष्ठानोपाधिभेदात्पवनविकारभेदाः । [१] आमपित्तविषरसविरोधिद्रव्यं भेषजम् ॥ ३६ ॥

 आमपित्तरसविरसजातरोगास्तच्छब्दार्थः । तत्सिरारन्ध्रमार्गेषु अनिलविकारो भूत्वा तत्सिरासंसर्गप्रदेशेषु यावत्कारणानुगतपवनगतिवैचित्र्यात् उवर्णबोधकसिरासंस्पर्शनं पवनगतिरोधकारकम् । कटिप्रदेशपद्मश्वयथुहेतुकम् । एवर्णबोधकसिरामार्गसंस्पर्शनं पवनगतिरोधकारकम् । बीजपद्मश्वयथुहेतुकम् । ऐवर्णोद्बोधकसिरामार्गगतपवनगतिरोधनं तत्पार्श्वश्वयथुहेतुकम् । आमपित्तरससारं बीजपार्श्वश्वयथुहेतुकम्, तद्वर्णबोधकसिरामार्गगतपवनगतिकारकत्वात् । यन्नैवं तन्नैवं यथा घटः । इत्यनुमानेन अच्स्वराधिष्ठानहेतुभूततत्तत्पद्माधारकसिरारन्ध्रभागगतपवनगतिः सुस्वरविशिष्टवर्णात्मकपदज्ञानप्रतिपादिका, ज्ञानेच्छाप्रयत्नादिना ताल्वोष्ठपुटव्यापारात्मकबाह्यपवनाहृतसंस्कारोद्बो

  1. भेदाः । मांसधातुपोषकद्रव्यं तत्र भेषजम् । आम-इति A. B. कोशयोरधिकःपाठः,