पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२३

पुटमेतत् सुपुष्टितम्
191
चतुर्थप्रश्नः

द्रव्यत्वादेव तत्पत्रसरो मूलसार इति व्यपदेशमात्रम् । तत्प्राधान्येन वक्तुमशक्यत्वात् इत्यस्वरसादाह एकेति ।

 एकदोषनिवर्तकं यावत्तदेकसारकम् ॥ ५५ ॥

 तत्तङ्गेषु भिन्नगन्धाभावत्वात् भिन्नरसाभावत्वाच्च अयमर्कवृक्षः पवनप्रकोपनिवर्तकः तिक्तरसवद्द्रव्यत्वात् । इत्यनुमानप्रमाणं वक्तव्यम् । तद्वदेव व्याप्तिर्वक्तव्या । तथा हि--यावत्तिक्तरसवद्द्रव्यं तत्पवनप्रकोपनिवर्तकम्, पित्तनिवर्तकस्वादुरसवद्द्रव्यस्य पवनप्रकोपनिवर्तकद्रव्यत्वात् । एवमाकारा व्याप्तिः । तयोर्व्याप्तौ गृहीतायां सत्यां विषमव्याप्तिरेव स्यादिति नाशङ्कनीयम् । यावत्पित्तनिवर्तकस्य पवनप्रकोपनिवर्तकत्वेन यावत्पित्तनिवर्तकद्रव्यं तावत्पवनप्रकोपनिवर्तकम् । पित्तनिवर्तकस्वादुरसवद्द्रव्यस्य पवनप्रकोपनिवर्तकद्रव्यत्वात् । एवमाकारेण व्याप्तिः गृहीतुं शक्यते । न तु तिक्तरसवद्द्रव्यमात्रं पित्तनिवर्तकम् । तद्यथा--विषतरुफलसारं पित्तप्रकोपकारकं सत् पवनप्रकोपनिवर्तकद्रव्यं तिक्तरसवद्द्रव्यत्वात् इत्येवमाकारेण व्याप्तिग्रहस्य वक्तुं सुकरत्वात् । न तत्र भोगयोग्यादनद्रव्यत्वमुपाधिः । भोगयोग्यादनयोग्यातिक्तरसवद्द्रव्यं पित्तप्रकोपनिवर्तकं, न तिक्तरसमात्रम् । विषतरुफलसारवद्द्रव्यं तिक्तरसवद्द्रव्यमपि भोगयोग्यादनद्रव्यं न भवतीति तत्र नाव्याप्तिः । भोगयोग्यादनद्रव्यं यन्न भवति तत्पित्तप्रकोपनिवर्तकमपि न भवति, यथा घटः । तिक्तरसवद्द्रव्यं पवनप्रकोपनिवर्तकं न भवति । एकरसवद्द्रव्यत्वं यत्र भासते तत्र अनेकसारसत्वेऽपि एतत्सारमेकदोषप्रकोपनिवर्तकं भवति । इति नाशङ्कनीयं, भोगयोग्यातिरिक्तरसवद्द्रव्यातिरिक्ततिक्तरसवद्द्रव्यत्वात् । तस्मात् यस्मिन्द्रव्ये एक