पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२२६

पुटमेतत् सुपुष्टितम्
194
आयुर्वेदसूत्रे

मपि संभवति । तस्मात्तन्निष्ठस्वादुरसस्य पवनप्रकोपनिवर्तकत्वं कथं भवेदित्यस्वरसादाह-- तदिति ।

 तत्पवननिवर्तकं सुभेषजम् ॥ ५८॥

 जङ्गमशरीरजन्यस्वादुरस एव तच्छब्दार्थः । तज्जन्यस्वादुरसः पवनप्रकोपनिवर्तकः । सर्वशरीराणि पाञ्चभौतिकानि । यत्र पार्थिवद्रव्याधिक्यगन्धोपलब्धिर्दृश्यते तत्रैव तज्जन्यस्वादुरसस्य पवनप्रकोपनिवर्तकत्वात् । जलमात्रनिष्ठस्वादुरसस्य न ब्रूमः, जलस्य जडरूपद्रव्यत्वात् तस्य शरीराभावात् । ननु उषःपानविधौ शुद्धजलसेवनं सकलदोषनिवर्तकमिति शास्त्रे प्रतिपादितम्, अन्यथा तत्प्रतिपादकशास्त्रविरोधः स्यात् । सर्वं जगत् जलेन विना जीवितुं न भवति समर्थम् । तस्य स्वभावेन "जीवनम्" इति नैघण्टुकैः नाम प्रतिपादितम् । तस्माज्जलनिष्ठस्वादुरसः पवनप्रकोपनिवर्तको भवतीति यदुक्तं तन्न रोचत इति चेत् न, स्थावराणां च जीवनोपकारकत्वस्य जलद्रव्यस्योचितत्वात् जलद्रव्यं जीवनं भवेत् । जङ्गमानां तु न तथा । तेषामपि अनलसंयोगजन्यसंस्कारात् जातजलनिष्ठस्वादुरसस्य पवनप्रकोपनिवर्तकत्वमित्युक्तत्वात् । तत्र उषःपानविधावपि हंसोदककर्मकरणविशिष्टजलं उषःपानाविधौ प्रशस्तमित्युक्तत्वात् । इतरत्रापि अनलसंयोगजसंस्काराबिशष्टस्य जलस्य पवननिवर्तकत्वे अनलसंयोत्वमुपाधिः । यत्रयत्र अनलसंयोगजसंस्कारविशिष्टजलत्वं भासते, तत्रतत्र पवननिवर्तकत्वमपि संभवति । शुद्धशीतलगुणविशिष्टजलस्य पवनप्रकोपकारकत्वनियमात् । शैत्यगुणविशिष्टजलनिष्ठस्वादुरसः न पवनप्रकोपनिवर्तकः । तत्र श्रुतिवचनं प्रमाणं-- अग्निर्हिमस्य भेषजम्" इति । तन्निवर्तकविधौ अनलसंयोग एवोपाधिरित्यर्थः