पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२३६

पुटमेतत् सुपुष्टितम्
204
आयुर्वेदसूत्रे

तुशोषकपोषकाः यावदुद्भूतभूरुहविरसादनजातरोगनिवर्तकतत्सजातीयरसवद्द्रव्यत्वात् । यावदुद्भूतभूरुहजातरसात् तदितरशरीरभूताधीनधातुशोषकरुङ्निवर्तकं भेषजं, इत्यनुमानरचना कार्यहेतुकव्याप्तिग्रहवशात् तन्निवर्तकनिवर्त्ययोः व्याप्तिग्रहे सति सर्वत्राप्युत्तरत्रापि तथा वक्तुं शक्यत्वादित्यर्थः ।

 ननु दोषप्रकोपनिवृत्तिद्वारा रसादीनां धातुपोषकत्वं वक्तव्यम् । यावद्भूतनिष्ठरसाः यावद्भूतावयवजन्यरोगनिवर्तका इति पूर्वसूत्रे प्रतिपादितम् । तच्चिन्त्यम् । केचिद्रसाः धातुपोषकाः, केचिद्रसाः धातुदूषका इति वक्तुं शक्यते । विरुद्धरसादजीर्णे जाते सति तत्तद्विधिचोदितरोगा आविर्भवन्ति । ते तु दोषानुगतास्सन्तः धातुगताश्चेत् तेषु तद्विकारा आविर्भवन्ति । यदा अविरुद्धरसादनेन दोषा अदुष्टास्सन्तः धातूनामविकारं कुर्वन्ति, शुद्धदोषाश्च धातून् प्राणांश्च संरक्षन्ति । ते तु दुष्टाश्चेत् धातुप्राणेन्द्रियघातका भवन्ति । रसादीनं दोषप्रकोपकारकत्वं दोषप्रकोपनिवर्तकत्वं च वक्तुमुचितम्, इत्याशयं मनसि निधाय षड्रसानां च तत्तद्गुणान् वर्णयति-- द्वीति ।

 द्विरसार्थरसहीनार्थहीनरसवाननिलनिवारकः ॥

 द्विरसार्थ इति स्वाद्वम्ललवणविशिष्टद्रव्यं पवनप्रकोपनिवर्तकम् । स्वादुरसवद्द्रव्यं पवननिवर्तकं न भवति, इक्षुरसकदळीफलनारिकेलतालफलेषु च व्यभिचारात् । स्वादुरसवत्त्वं आम्लरसवत्त्वं च यस्मिन्द्रब्ये यदा प्रतीयते तत्र तद्रसवद्विशिष्टद्रव्यं पवननिवर्तकं भवतीत्यर्थः । केवललवणरसवद्द्रव्यं पवननिवर्तकं न भवति, ऊषरभूमिजन्यलवणरसस्य पव