पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४१

पुटमेतत् सुपुष्टितम्
209
पञ्चमप्रश्नः

कारकाणीति सूत्रसिद्धमपि एतद्विरसादनं पवनप्रकोपं करोतीति तात्पर्यम् । अत एव सूत्रान्तरं व्याचष्टे--कटुकेति ।

कटुकातिकटुकः कफानिलं हन्ति । पित्तं कुरुते ॥ १०

शुद्धकटुरसः पित्तप्रकोपं कुरुत इत्यर्थः ।

 कषायः कफपित्तं हन्ति । मारुतं कुरुते । हीनाधिककषायः कफमारुतं हन्ति । पित्तं कुरुते ॥ ११

 कषायः कफपित्तं हन्ति । मारुतं कुरुते' इत्यस्य सुत्रस्य तद्वदेव व्याख्यानं योजनीयम् ।

 ननु षड्रसद्रव्याणां मध्ये एकरसद्रव्यस्य तत्तद्रोगनिवृत्तिकार्यं तत्तत्कर्म तत्तत्फलं च प्रतिपादितम् । इदानीं बहुरसद्रव्याणां योगकार्यस्य तत्तद्रोगनिवृत्तिरेव फलं यत्र दृश्यते तत्र अनेकरसवद्द्रव्याणां समूहकार्यकारकत्वं भवतीति मत्वा एकरोगनिवृर्त्त्यर्थमनेकरसद्रव्याणामनेकत्वयंत्रोपलभ्यते, तत्र बहुरसवद्द्रव्याणां एकरोगनिवर्तकत्वस्यायोग्यत्वात्, तत्तद्व्याधीनां निवर्तकत्वमनेकद्रव्याणामिति तत्तद्व्याधिनिवर्तकत्वावच्छेदकत्वस्य वक्तुमायोग्यत्वात्, एकैकद्रव्यस्य एकरोगनिवृर्तकगुणत्वावच्छेदकस्य भिन्नत्वात् "बहुकल्पं बहुगुणम्" इति न्यायशास्त्रमवलम्ब्य बहुद्रव्ययोगकार्यकारकत्वमुक्तं चेत् अतिप्रसङ्गः स्यात् । एकद्रव्यमेकरोगनिवर्तकमित्यर्थस्य बहुशोदृष्टत्वात् । मलनिरोधनहेतुजन्यरोगे एकस्यैव रेचकद्रव्यस्य तन्निवर्तकसामर्थ्यस्य बहुद्रव्येषु बहुशो दृष्टत्वात् । तत्रापि बहुद्रव्यकल्पनागौरवात् एकद्रव्यस्यैव एकरोगनिवर्तकसामर्थ्यस्य बहुशो दृष्टत्वात् इत्यस्वरसादाह-- दोष इति ।

 AYURVEDA.
27