पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५६

पुटमेतत् सुपुष्टितम्
224
आयुर्वेदसूत्रे

षविकाराधिक्यवशात् विरसजन्याजीर्णे वृत्ते सति दोषविकारगत्या अग्निसन्धुक्षणकरणमपि न क्रियते । जठरानलः स्वस्थानं विहाय बहिः प्रज्वलन् स तु सामज्वरमाविर्भावयतीत्यर्थः ।

 ननु लौकिकसामग्रीमात्रं न कारणं सुकर्मकरणविधविद्यादयोऽपि संभवन्ति,

पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते ।
अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥

 इति वार्तिकवचनानुसारेण ज्ञातव्यम् । रसविरसवद्द्रव्यादने जाते सति केषांचिद्व्याधयस्सभवन्ति । इति सर्वत्र नियमेन वक्तुमशक्यत्वात् "सर्वं बलवतः पथ्यं" इति न्यायवचनानुसारेण बलवद्विषये रसाजीर्णविरसाधिकविरुद्धरसे जाते सत्यपि तत्र रोगो न दृष्टः । लौकिकसामग्रीमात्रमेव क्वचिन्न कारणम् । आमाद्यात्मककार्याणां संभावितत्वात् प्रारब्धकर्मणां बलित्वात् सर्वत्रापि रसाजीर्णजन्यरोगास्सम्भवान्तीत्येतत्प्रतिपादनं व्यर्थं स्यादिति । तेन यत्र रोगोत्पादकामवृद्धिर्भवति तत्र तादृग्रोगकार्यमाविर्भवति । तथाहि--रसाजीर्णविरसधिकविरुद्धरसजकार्यवैचित्र्यात् तत्तद्रोगजनककारणवैचित्र्यं पुनर्वक्तुं शक्यते । यावदजीर्णजन्यामयस्य लङ्घनमेव निवर्तकं रोगनिवर्तकसामग्र्यतिरिक्तसामग्रीनिवर्त्यत्वात्, लङ्घनादिसामग्रीकार्यं विना अनिर्वर्त्यत्वाच्च । तस्माद्विरसद्रव्यादनसामग्री यादृशी भवति तद्रोगकार्यवैचित्र्यं तादृशं संभवति । तथाहि-- सर्वे रोगास्संजातास्स्वजनकाधिक्यवशात्त्रयोदशरूपज्वरास्सन्निपातविकारास्संभवन्ति । स्वादुरसविरसत्वजातयावत्कार्यं शिरःकमलस्थामृतं सर्वसिरान्ध्रभागमुपगम्य विरसविषमदोषसंपर्कवशात् यदा विकारो