पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६३

पुटमेतत् सुपुष्टितम्
231
पञ्चमप्रश्नः

लोहसाधारणमहारसानामन्यद्रव्यसंयोगजन्ययोगकरणं गुणं प्रयच्छति । तद्विरसान्तरप्रापकसामग्रीसान्निध्याभावद्रव्यत्वात् ।

 ननु यावद्दोषप्रकोपहेतुकविरसद्रव्याजीर्णजन्यज्वराः तत्तद्दोषनिवर्तकाः, दोषप्रकोपजनकस्वादुरसविरसद्रव्यजाताजीर्णजन्यज्वराः तत्तद्दोषनिवर्तकाः दोषप्रकोपजनकस्वादुरसविरसद्रव्यजाताजीर्णजन्यत्वात् । अजीर्णजन्यविरसरसाः ज्वरोपद्रवकार्यं कुर्वन्ति, तदुपद्रवविशिष्टज्वरनिमित्तकद्रव्यत्वात् ।

 ज्वरप्रकोपज्ञानजनकदशोपद्रवरोगाणामुत्पत्तिं दर्शयितुं व्याचष्टे--एवमिति ।

 एवमन्योन्यदोषजाताश्च ॥ २९ ॥

 अन्योन्यनिमित्तकज्वरोपद्रवाः दशाविर्भवन्ति । श्वासमूर्छाभ्रमछर्दितृष्णातिसारहिक्काकासाङ्गवेधनमूढातिरोगाः । एते ज्वरोपद्रवा दश । तदुपद्रवाविर्भावजनकसामग्री ज्वरप्रकोपकार्यहेतुभूतामरसविरसविषकृमिसंस्पर्शनं यावद्वर्णाधारकपद्मावलम्बकसिरासंस्पर्शजातपवनगतिविकारजन्यतत्तद्रोगकार्यसिरागतपवनगतिजन्यरोगात्मकान्योन्यसंसर्गहेतुभूतत्वात् । एवमन्योन्यदोषजातरोगाः ज्वरप्रकोपकार्यहेतुका इत्यर्थः ।

 ननु विरसाधिक्यजातज्वरः मांसमेदादोषगत इत्युक्तत्रिविधरसाधिक्यजातज्वरश्चेत् अस्थिमज्जाधातुपर्यन्तं ज्वरोऽनुधावति । दोषत्रयप्रकोपजनकविरसजातज्वरस्य अस्थिमज्जाधात्वधिरोहकत्वात् । अयं त्रिदोषज्वर इति व्यवहर्तुं शक्यत इत्यत आह--द्विरसेति ।