पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६७

पुटमेतत् सुपुष्टितम्
235
पञ्चमप्रश्नः

 स्वादुरसवद्द्रव्यत्वगुणवत् रसद्रव्यमित्यनुभूयते उद्भूतरसव्यतिरिक्तरसवद्द्रव्याभावात् । तस्माद्रसादयो गुणा गुणिनमन्तरेण गुणा नावतिष्ठन्त इति द्रव्यमावश्यकम्, द्रव्याश्रया गुणा इति । सप्तधातुकशरीरद्रव्यत्वात् रसादीनां गुणत्वात् गुणगुणिनोर्भेदस्य अवसितत्वात् रसादयो द्रव्याश्रया भवन्ति । तस्मात्सप्तधात्त्वात्मकष्षड्रसव्यतिरिक्त इति न वाच्यम्, द्रव्यरसात्मकत्वात् । शरीरान्तस्स्थितरसाः धातुरूपेण परिणमन्ति । तावद्धातूनां द्रव्यनिष्ठत्वात् धातूनां द्रव्यगुणत्वात् रूपादिवत् भेदो न दृश्यते । रसवद्द्रव्यं रसनेन्द्रियविषयकम् । रूपवद्द्रव्यं चक्षुरिन्द्रियविषयकम् । रसद्रव्यं रूपरसवद्द्रव्यं सादृश्यात् ! षड्रसविकार एव धातुरिति रससप्त ... नेन्द्रियेण गृह्यते । तत्सजातीयं सप्तधातुसजातीयरसेषु लभ्यते । तेऽन्तस्स्थितास्सन्तः धातुमेव पुष्णन्ति । तद्यथा– इक्षुकाण्डस्थितस्वादुरसः यत्रयत्र भेदवशात् वर्तते तन्निष्ठस्वादुरसं संगृह्य तत्संसर्गजातिद्रव्यं विभजन् रसं करोति । तदनन्तरं तत्स्वादुरसं विहाय तत्संयोगिद्रव्यं पृथक्तया तद्भक्ततया भजते रूपादिवत् । असिगाभवनं बुद्राभावात् ?। नीलो घट इति घटनिष्ठनीलरूपं विहाय अन्यद्रव्यावयवतया स भासते । अत्र रसव्यतिरिक्तद्रव्यस्याभावात् तद्वत् एषु च धातुत्वपृथगाकारकतत्तद्गुणविशिष्टतया चक्षुःप्रतीतिः जायते । तद्वत् लवणोषणकषाया इत्याह्वयन्ते, आश्रयादिवत् । शरीराङ्गस्थितानि भवन्ति । तेन रसादय इत्याहूयन्ते । न वाच्यम्, शरीरं सप्तधात्वात्मकम् । धातवश्च रसात्मकाः शरीरं रसात्मकद्रव्यं सप्तधात्वावृतत्वात् । तदर्थं पृथुबुध्नोदराकारत्वैकभासं तत् । स्वादुरसश्शुक्रश्लेष्मरूपवत्त्वेन परिणमति । आम्लरसः मज्जारूपाकृतिः परिणमति । लवणरसः अस्थिरूपाकृतिः परिणमति ।